वाचस्पत्यम्
वीङ्खा || स्त्री वि + इखि—अच् । १ शूकशिम्ब्याम् । भावे अ । २ गतिभेदे ३ नृत्ये ४ अश्वगतिभेदे ५ सन्धो वः शब्दच० ।
शब्दकल्पद्रुमः
वीङ्खा || स्त्री (वीङ्खनमिति । वि + इङ्ख + “गुरोश्च हलः ।” इति अः । टाप् ।)
शूकशिम्बी । गतिभेदः । नर्त्तनम् । इति हेमचन्द्रः ॥ अश्व- गतिभेदः । सन्धिः । इति शब्दरत्नावली ॥