संस्कृत-शब्दकोशः

वीङ्खा वीचितरङ्ग

वीचि

वाचस्पत्यम्

वीचि(ची) ||‍ पुंस्त्री० वे—डीचि स्त्रीत्वे वा ङीप् । १ तरङ्गे अमरः २ अवकाशे ३ सुखे मेदि० । ४ अल्पे हेमच० । ५ कि- रणे च जटाध० ।


शब्दकल्पद्रुमः

वीचिः || पुं, स्त्री, (वयति जलं तटे वर्द्धयतीति । वे + “वोञो डिच्च ।” उणा० ४ । ७२ । ईचिः । स च डित् ।)
तरङ्गः । इत्यमरः ॥ (यथा, रघुवंशे । १ । ४३ । “सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणम् ॥”)
स्वल्पतरङ्गः । अवकाशः । सुखम् । इति मेदिनी । चे, १० ॥ अल्पः । इति हेमचन्द्रः ॥ किरणः । इति जटाधरः ॥



Correction: