वाचस्पत्यम्
वीची is an alternate of वीचि. वीचि(ची) || पुंस्त्री० वे—डीचि स्त्रीत्वे वा ङीप् । १ तरङ्गे अमरः २ अवकाशे ३ सुखे मेदि० । ४ अल्पे हेमच० । ५ कि- रणे च जटाध० ।
शब्दकल्पद्रुमः
वीची || स्त्री (वीचि + कृदिकारादिति ङीष् ।)
वीचिः । इत्यमरटीकायां भरतः ॥ (यथा, बृहत्संहितायाम् । ५६ । ४ । “सरःषु नलिनीच्छत्रनिरस्तरविरश्मिषु । हंसांसाक्षिप्तकह्लारवीचीविमलवारिषु ॥”)