संस्कृत-शब्दकोशः

वीचीतरङ्ग वीजक

वीज

वाचस्पत्यम्

वीज ||‍ न० वी—क्विप् जन—ड कर्म० । १ कारणे २ शुक्रे अमरः । ३ अङ्कुरे ४ तत्त्वावधाने मेदि० । ५ मज्जनि राजनि० । ६ अव्यक्तगणितभेदे “पूर्वं प्राक्तं व्यक्तमव्यक्तवीजं प्रायः प्रश्नानो विना व्यक्तयुक्त्या । ज्ञातुं शक्या मन्दधीमिर्नि- तान्तं यस्मात्तस्याद् वच्मि वीजक्रियाञ्च । ७ मन्त्रमेदे तन्द्रसा० । “वीजग्ने भातरेतत् त्रिपुरहरवधु! त्रिः कृत य जपन्ति” कर्पूरस्तवः । ७ वान्यादः फलादौ च ।


वाचस्पत्यम्

वीज ||‍ व्यजने अद० चुरा० उभय० सक० सेट् । वीजयति तं अविवीजत्—त । “वीज्यते स हि सन्तप्तः” इति कुमारः ।


शब्दकल्पद्रुमः

वी(बी)जं || क्ली (विशेषेण कार्य्यरूपेण अपत्यतया च जायते इति । वि + जन + “उपसर्गे च संज्ञा- याम् ।” इति डः । “अन्येषामपीति ।” उप- सर्गस्य दीर्घः । यद्वा विशेषेण ईजते कुक्षिं गच्छति शरीरं वा । ईज गतिकुत्सनयोः + पचाद्यच् । यद्वा, वीजते गच्छति गर्माशय- मिति । वीज् + अच् । यद्वा, “वीजप्रजनन- कान्त्यसनखादनेषु । इत्यस्मादच्प्रत्ययः । तथा च भोजराजीये वियो जक् इति व्युत्पादितम् । बवयोरभेदः । वेति प्रजायते गच्छत्यनेनानृण्यं पितेति वा । अत्र क्षीरस्वामी वीज्यते वेति वा वीजं वाजिलौकिकः इति । वीजिः स्यात् प्रेरणक्रिया इति माधवः ॥ प्रेर्य्यते हि कार्य्य- करणाय वा वीजम् ।” इति निघण्टौ देव- राजयज्वा । २ । २ । १५ ।)
कारणम् । (यथा, गीतायाम् । ७ । १० । “वीजं मां सर्व्वभूतानां विद्धि पार्थ सनातनम् ॥” यथा च मनौ । १ । ५६ । “यदाणुमातृको भूत्वा वीजंस्थास्नु चरिष्णु च ॥”)
शुक्रम् । इत्यमरः ॥ (यथा मनौ । १ । ८ । “अप एव ससर्ज्जादौ तासु वीजमवासृजत् ॥” वीजं शुक्रम् । इति मेधातिथिः ॥ वीजं शक्ति- रूपम् । इति कुल्लूकः ॥ यथा च तत्रैव । १० । ७२ । “यस्माद्वीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते ॥”)
श्रीकृष्णस्य सर्व्वावतारवीजत्वं यथा, — दानव उवाच । “अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् । सर्व्वेषामवताराणां बीजरूपः सनातनः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २२ अध्यायः ॥ अङ्कुरः । (यथा, महाभारते । ५ । १२ । १९ । “न तस्य वीजं रोहति वीजकाले न चास्य वर्षं वर्षति वर्षकाले । भीतं प्रपन्नं प्रददाति शत्रवे न त्रातारं लभते त्राणमिच्छन् ॥”)
तत्त्वाधानम् । इति मेदिनी ॥ मज्जा । इति राजनिर्घण्टः ॥ गणितबिशेषः । यथा, —
“उत्पादकं यत्प्रवदन्ति बुद्धे- रधिष्ठितं सत्पुरुषेण सांख्याः । व्यक्तस्य कृत्स्नस्य तदेकवीज- मव्यक्तमीशं गणितं च वन्दे ॥ पूर्ब्बं प्रोक्तं व्यक्तमव्यक्तवीजं प्रायः प्रश्ना नो विना व्यक्तयुक्त्या । ज्ञातुं शक्या मन्दधीभिर्नितान्तं यस्मात्तस्माद्वच्मि बीजक्रियाञ्च ॥” इति भास्कराचार्य्यविरत्तिते सिद्धान्तशिरोमणौ वीजगणिताध्यायस्य प्रथमद्वितीयश्लोकौ ॥ * ॥
मन्त्रः । यथा । अथ भुवनेश्वरीमन्त्रः । “नकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रवान् । बीजं तस्याः समाख्यातं सेवितं सिद्धि- काङ्क्षिभिः ॥” नकुलीशो हकारः । अग्नी रेफः । वामनेत्र- मीकारः । अर्द्धचन्द्रोऽनुस्वारः । ह्रीं ॥ * ॥
अन्नपूर्णाया वीजम् । ह्रीं नमो भगवति माहे- श्वरि अन्नपूर्णे स्वाहा ॥ * ॥
अथ त्रिपुटा- वीजम् । श्रीँ ह्रीँ क्लीँ ॥ * ॥
त्वरितावीजम् । ॐ ह्रीँ हुँ खे च छे क्ष स्त्री हूं क्षे ह्रीँ फट् ॥ * ॥
अथ नित्यावीजम् । ऐँ क्लीँ तित्यक्लिन्ने मददवे स्वाहा ॥ * ॥
वज्रप्रस्तारिण्याः । ऐँ ह्रीँ नित्य- क्लिन्ने मदद्रवे स्वाहा ॥ * ॥
अथ दुर्गावीजम् । ॐ ह्रीँ दुँ दुर्गायै नमः ॥ * ॥
महिषमर्दिनी- वीजम् । ॐ महिषमर्द्दिनि स्वाहा ॥ * ॥
जयदुर्गा वीजम् । ॐ दुर्गे दुर्गे रक्षणि स्वाहा ॥ * ॥
शूलिनीवीजम् । ज्वल ज्वल शूलिनि दुष्टग्रह हुँ फट् स्वाहा ॥ * ॥
वागीश्वरीवीजम् । वद वद वाग्वादिनि स्वाहा ॥ * ॥
पारिजात- सरस्वतीवीजम् । ॐ ह्रीँ ह्सौँ ॐ ह्रीँ सरस्वत्यै नमः ॥ * ॥
गणेशवीजम् । गँ ॥ * ॥
हेरम्बवीजम् । ॐ गूँ नमः ॥ * ॥
हरिद्रा- गणेशवीजम् । ग्लँ ॥ * ॥
लक्ष्मीवीजम् । श्रीँ ॥ * ॥
महालक्ष्मीवीजम् । ॐ ऐं ह्री श्रीँ क्लीँ ह्सौँ जगत्प्रसूत्यै नमः ॥ * ॥
सूर्य्यवीजम् । ॐ घृणि सूर्य आदित्य ॥ * ॥
श्रीरामवीजम् । रां रामाय नमः । जानकीवल्लभाय हुँ स्वाहा ॥ * ॥
विष्णु- वीजम् । ॐ नमो नारायणाय ॥ * ॥
श्रीकृष्ण- वीजम् । गोपीजनवल्लभाय स्वाहा ॥ * ॥
वासु- देवस्य । ॐ नमो भगवते वासुदेवाय ॥ * ॥
बालगोपालस्य । ॐ क्लीं कृष्णाय ॥ * ॥
लक्ष्मी- वासुदेवस्य । ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मीवासु- देवाय नमः ॥ * ॥
दधिवामनस्य । ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा ॥ * ॥
हयग्रीवस्य । ॐ उद्गिरत्प्रणवोद्गीथसर्व्ववागीश्वरेश्वर । सर्व्ववेदमयाचिन्त्य सर्व्वं बोधय बोधय ॥ * ॥
नृसिंहस्य । उग्रं वीरं महाविष्णुं ज्वलन्तं सर्व्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ * ॥
नरहरिवीजम् । आँ ह्रीँ क्षौं हुं फट् ॥ * ॥
हरिहरस्य । ॐ ह्रीँ हौँ शङ्करनारायणाय नमः हौँ ह्रीँ ॐ ॥ * ॥
वराहस्य । ॐ नमो भगवते वराहरूपाय भूर्भुवस्वःपतये भूपतित्वं मे देहि ददापय स्वाहा ॥ * ॥
शिवस्य । हौं ॥ * ॥
मृत्युञ्जयस्य । ॐ जुं सः ॥ * ॥
दक्षिणामूर्त्तिवीजम् । ॐ नमो भगवते दक्षिणा- मूर्त्तये मह्यं मेधां प्रयच्छ स्वाहा ॥ * ॥
चिन्ता- मणिवीजम् । र क्ष म र य औं ऊं ॥ * ॥
नीलकण्ठस्य । प्रों न्रीं ठः नमः शिवाय ॥ * ॥
चण्डस्य । रूध्व फट् ॥ * ॥
क्षेत्रपालस्य ॐ क्षौँ क्षेत्रपालाय नमः ॥ * ॥
वटुकभैरवस्य । ॐ ह्री वटुकाय आपदुद्धरणाय कुरु कुरु वटुकाय ह्रीं ॥ * ॥
त्रिपुरावाः । हसरैं । हसकलरीं । हसरौँः ॥ * ॥
सम्पत्प्रदाभैरव्याः । हसरैं । हसकलरीं । हसरौँ ॥ * ॥
कौलेशभैरव्याः । सहरैं । सहकलरीं । सहरौँ ॥ * ॥
भय- विध्वंसिनीभैरव्याः । हसैँ । हसकलरीं । हसौँ ॥ * ॥
सकलसिद्धिदाभैरव्याः । सहैँ । सह- कलरीं । सहौँ ॥ * ॥
चैतन्यभैरव्याः । सहैँ । सकलह्रीँ । सहरौः ॥ * ॥
कामेश्वरीभैरव्याः । सहैँ । सकलह्रीँ । नित्यक्लिन्ने मदद्रवे सहरौः । षट्कूटाभैरव्याः । डरलकसहैँ । डरलकसहीँ । डरलकसहौँ ॥ * ॥
नित्याभैरव्याः । हसकल- रडैँ । हसकलरडीं । हसकलरडौँ ॥ * ॥
रुद्र- भैरव्याः । हसखफरेँ । हसकलरीँ । हसौः ॥ * ॥
भुवनेश्वरीभैरव्याः । हसैँ । हसकलह्रीं । हसौः ॥ * ॥
सकलेश्वर्य्याः । सहैं । सहकलह्रीं । सहौः ॥ * ॥
त्रिपुराबालायाः । ऐं क्लीं सौः ॥ * ॥
नवकूटाबालायाः । ऐँ क्लीँ सौः । हसैँ । हसकलरीँ । हसौँः । हसरैँ हसकलरीं हसरौँः ॥ * ॥
अन्नपूर्णाभैरव्याः । ॐ ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा ॥ * ॥
श्रीविद्यायाः । कएईल ह्रीँ । हसकहलह्रीँ । सकलह्रीँ ॥ * ॥
छिन्नमस्तायाः । श्रीं क्लीं हूं ऐं वज्रवैरोचनीये हूँ हूँ फट् स्वाहा ॥ * ॥
श्यामायाः । क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं हूँ हूँ ह्रीँ ह्रीँ स्वाहा ॥ * ॥
गुह्यकालिकायाः । क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं गुह्ये कालिके क्रीं क्रीं क्रीं हूँ हूँ हीँ ह्रीँ स्वाहा ॥ * ॥
भद्रकाल्याः । क्लीं क्लीं क्लीं हूं हूं ह्रीं ह्रीं भद्रकाल्यै क्लीं क्लीं क्लीं हूं हूं ह्रीं ह्रीं स्वाहा ॥ * ॥
श्मशानकालिकायाः । क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं श्मशानकालि क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा ॥ * ॥
महाकाल्याः । क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं महाकालि क्रीं क्रीं क्रीं हूं हू ह्रीं ह्रीं स्वाहा ॥ * ॥
तारायाः । ह्रीं स्त्रीं हूं फट् ॥ * ॥
चण्डोग्रशूलपाणेः । ॐ ह्रीं हूं शिवाय फट् ॥ * ॥
मातङ्गिन्याः । ॐ ह्रीँ क्लीं हूं मातङ्गिन्यै फट् स्वाहा ॥ * ॥
उच्छिष्टचाण्डालिन्याः । उच्छिष्टचाण्डालिनी सुमुखीदेवी महापिशाचिनी ह्रीं ठँः ठँः ठँः ॥ * ॥
धूमावत्याः । धूं धूं स्वाहा ॥ * ॥
भद्रकाल्याः । हौं कालि महाकालि किलि किलि फट् स्वाहा ॥ * ॥
उच्छिष्टगणेशस्य । ॐ हस्ति- पिशाचि लिखे स्वाहा ॥ * ॥
धनदायाः । धं ह्रीं श्रीं देवि रतिप्रिये स्वाहा ॥ * ॥
श्मशानकालिकायाः । ऐँ ह्रीँ श्रीँ क्लीँ कालिके ऐँ ह्रीँ श्रीँ क्लीँ ॥ * ॥
वगलायाः । ॐ ह्लीँ वगलामुखि सर्व्वदुष्टानां वाचं मुखं स्तम्भय जिह्वां कीलय कीलय बुद्धिं नाशय ह्लीं ॐ स्वाहा ॥ * ॥
कर्णपिशाच्याः । ॐ कर्णपिशाचि वदातीतानागतशब्दं ह्रीं स्वाहा ॥ * ॥
मञ्जु- घोषस्य । क्रों ह्रीं श्रीं ॥ * ॥
तारिण्याः । क्रीँ क्लीँ कृष्णदेवि ह्रीँ क्रीं ऐं ॥ * ॥
सारस्वत- वीजम् । ऐं ॥ * ॥
कात्यायन्याः । ऐं ह्रीं श्रीं चौं चण्डिकाय नमः ॥ * ॥
दुर्गायाः । दूं ॥ * ॥
विशालाक्ष्याः । ॐ ह्रीं विशालाक्ष्यै नमः ॥ * ॥
गौर्य्याः । ह्रीं गौरि रुद्रदयिते योगेश्वरि हूं फट् स्वाहा ॥ * ॥
ब्रह्मश्रीमन्त्रः । ह्रीँ नमो ब्रह्म- श्रीराजिते राजपूजिते जये विजये गौरि गान्धारि त्रिभुवनशङ्करि सर्व्वलोकवशङ्करि सर्व्वस्त्रीपुरुषवशङ्करि सुयुद्धदुर्घोररावे ह्रीँ स्वाहा ॥ * ॥
इन्द्रस्य । इं इन्द्राय नमः ॥ * ॥
गरुडस्य । क्षिप ॐ स्वाहा ॥ * ॥
विषहराग्नि- वीजम् । खः खं ॥ * ॥
वृश्चिकविषहरवीजम् । ॐ सरह स्फुः । ॐ हिलि हिमि चिलि हस्फुः । ॐ हिलि हिलि चिलि चिलि स्फुः । ब्रह्मणे फुः । सर्व्वेभ्यो देवेभ्यस्फुः ॥ * ॥
मूषिकविषहर- वीजम् । ॐ गेँ ऋँ ठं । आगमचन्द्रिकायां ॐ गं गां ठः ॥ * ॥
मूषिकनाशमन्त्रः । ॐ सरणे फुः असरणे फुः विसरणे फुः । एतन्मन्त्रं जपन् श्वेतसर्षपप्रक्षेपात् मूषिकनाशो भवति ॥ * ॥
लूताविषहरमन्त्रः । ॐ ह्रीं ह्रीं हूं जकृत् ॐ स्वाहा गरुड हूं फट् ॥ * ॥
सर्व्वकीटविषहर- वीजम् । ॐ नमो भगवते विष्णवे सर सर हन हन हुं फट् स्वाहा ॥ * ॥
सुखप्रसवमन्त्रः । ॐ मन्मथ मन्मथ वाहि वाहि लम्बोदर मुञ्च मुञ्च स्वाहा । ॐ मुक्ताः पाशा विपाशाश्च मुक्ताः सूर्य्येण रश्मयः । मुक्तः सर्व्वभयाद्गर्भ एह्येहि मारीच मारीच स्वाहा । एतयो- रन्यतरेणाष्टवारं जलमभिमन्त्र्य देयं पीत्वा सुखप्रसवा भवति ॥ * ॥
हनूमतः । हं हनूमते रुद्रात्मकाय हुं फट् ॥ * ॥
वीरसाधनस्य । हं पवननन्दनाय स्वाहा ॥ * ॥
अथ आर्द्रपटी । ॐ नमो भगवति चामुण्डे रक्तवाससे अप्रति- हतरूपपराक्रमे अमुकवधाय विचेतसे स्वाहा । आर्द्ररक्तपटेनावृतः समुद्रगामिनीनदीतटे ऊषरभूमौ वा दक्षिणामुख ऊर्द्ध्वबाहुर्जपेत् । यावत् पटः शुष्यति तावत् प्राणाः शुष्यन्ति शत्रोः ॥ * ॥
श्मशानभैरव्याः । श्मशानभैरवि नररुधिरास्थिवसाभक्षणि सिद्धिं मे देहि मम मनोरथान् पूरय हुं फट् स्वाहा ॥ * ॥
ज्वाला- मालिन्याः । ॐ नमो भगवति ज्वालामालिनि गृध्रगणपरिवृते हुं फट् स्वाहा ॥ * ॥
महा- काल्याः । ॐ फ्रें फ्रें क्रों क्रों पशून् गृहाण हुं फट् स्वाहा ॥ * ॥
अथ निगडबन्धन- मोक्षणस्य । ॐ नम ऋते निरृते तिग्मतेजो यन्मयं विव्रे ता बन्धमेतं यमेन दत्तं तस्या संविदा नोत्तमे नाके अघोवोऽवैरम् ॥ * ॥
अथ चिटि- मन्त्रः । ॐ चिटि चिटि चाण्डालि महा- चाण्डालि अमुकं मे वशमानय स्वाहा ॥ * ॥
त्र्यम्बकस्य । ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्व्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् ॥ अथ मृतसंजीवनीमन्त्रः । हौँ ॐ जुँ सः ॐ भूर्भुवः स्वः । त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्व्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् ॥ ॐ भूर्भुवः स्वः । इत्यादि तन्त्रसारः ॥ आक- र्षणादिवीजानि बाहुल्यभयान्नोक्तानि ॥ * ॥
(अथ वीजाभिधानम् । यथा, —
“वीजसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः । वीजनामानि कतिचित् वक्ष्यामि विदुषां मुदे ॥ माया लज्जा परा संवित् त्रिगुणा भुवनेश्वरी । हृल्लेखा शम्भुवनिता शक्तिर्देवीश्वरी शिवा ॥ महामाया पार्व्वती च संस्थानकृतरूपिणी । परमेश्वरी च भुवना धात्री जीवनमध्यगा ॥ स्त्रीं ॥ वह्निहीनेऽस्त्रयुङ्माया स्थिरमाया प्रकीर्त्तिता ॥ ह्लीं ॥ शाग्निशान्तिर्बिन्दुनादैर्लक्ष्मीप्रणव उच्यते । श्रीर्लक्ष्मीर्विष्णुवनिता रमा क्षीरसमुद्रजा ॥ श्रीं ॥ षोडशव्यञ्जनं बह्निवामाक्षिबिन्दुसंयुतम् । चन्द्रवीजसमारूढं बधूवीजमिदं स्मृतम् । बधूर्वामेक्षणा योषिदेकाक्षी स्त्रीचकामिनी ॥ स्त्रीं नादबिन्दुसमायुक्तो द्वादशस्तुमुरो भगम् । योनिः सरस्वतीवीजमधरं वाग्भवञ्च वाक् ॥ ऐं हकारो वामकर्णाढ्यो नादबिन्दुविभूषितः । कूर्च्चं क्रोध उग्रदर्पो दीर्घहूङ्कार उच्यते । शब्दश्च दीर्घकवचं तारा प्रसव इत्यपि ॥ हूं ॥ कामाक्षरं वह्निसंस्थं रतिबिन्दुविभूषितम् । कालीवीजमिदं प्रोक्तं रतिवीजं तदेव हि ॥ क्रीं ॥ कामाक्षरं धरासंस्थं रतिबिन्दुविभूषितम् । गुप्तकालीवीजमिदं गोपालवीजमित्यपि ॥ तत्कामवीजं कामेशी वीजं शक्तिस्त्वसौ परा ॥ क्लीं ॥ सत्यान्तयुक्व्योमसेन्दुशैवं प्रासादमुच्यते ॥ हौं ॥ कलाद्यं क्लेदिनीवीजं क्रोङ्कारस्त्वङ्कुशाभिघः ॥ क्रों ॥ आकारो विन्दुमान् पाशः शेषश्च समुदीरितः । सकला भुवनेशानी कामेशी वीजमुच्यते ॥ नमस्तु हृदयं स्वाहा द्विठष्ठयुगलं ठठः ॥ नमः ॥ स्वाहा ॥ चन्द्रयुग्मं शिवो वेदमाता ज्वलनसुन्दरी । स्वाहा परा देवभोज्यं ठद्बयं चन्द्रयुग्गकम् । श्रुवो हविर्व्वेदमाता देवास्यं वह्निसुन्दरी ॥ स्वाहा ॥ शिखा वषट् शिरोमध्य शक्रमाता हरप्रिया ॥ शिखा वषट् च । वषट् कवचं क्रोधो वर्म्महूमि- त्यपि । क्रोधाख्योहं तनुत्वञ्च शस्त्रादौ रिपुसंज्ञकः ॥ हूं ॥ अस्त्रनेत्रयुगं वौषट् ॥ वौषट् ॥ फडस्त्रं शस्त्र- मायुधम् ॥ फट् ॥ तार्त्तीयन्तु ह्सौः प्रेतवीजम् ॥ ह्सौः ॥ हंसो- ऽजपामनुः ॥ हंसः ॥ गकारो विन्दुमान् विघ्नवीजं गणेशवीजकम् ॥ गं ॥ स्मृतिस्थं मांसमौबिन्दुयुतं भूवीजमीरितम् ॥ लं ॥ ठान्तं दहननेत्रेन्दुयुतन्तु विम्बवीजकम् ॥ ड्रीं ॥ अथ कामकलावामनयनं विन्दुसंयुतम् । अर्कमात्राकलावाणीनादोर्द्धेन्दुः सदाशिवः । अनुच्चार्य्यतुरीया च विश्वमातृकला परा ॥ ँ ॥ नादः ॥ भूतडामरसङ्केतबोधार्थं भूतडामरीयवीजनामा- न्यपि लिख्यन्ते । प्रणवो विषवीजं स्यात् ध्रुवं हालाहलं स्मृतम् । कालश्रुतिपथं ज्ञेयं बहुरूपी निरञ्जनम् ॥ प्रणवम् ॥ क्षतजस्थं व्योमवक्त्रं धूम्रभैरव्यलङ्कृतम् । नादबिन्दुसमायुक्तं वीजं प्राणात्मकं स्मृतम् ॥ ह्रीं क्रोधीशं क्षतमारूढं धूम्रभैरव्यलङ्कृतम् । विद्या जिह्वा विन्दुयुतं पितृभूवासिनी स्मृतम् ॥ क्रीं क्रोधकालात्मकं कुर्य्याद्भौतिकं वाग्भवं स्मृतम् । नादविन्दुसमायुक्तं समाधायोग्रभैरवीम् ॥ वीजमेतत्तु कथितं शुद्धबुद्धिप्रवर्त्तकम् ॥ ऐं ॥ क्रोधीशं बलभृद्धूम्रभैरवीनादविन्दुभिः । त्रिमूर्त्तमन्मथं कामराजस्त्रैलोक्यमोहनम् । इन्द्रासनगतो ब्रह्म समूर्त्तिस्तु समन्मथः ॥ क्लीं ॥ संयुक्तं धूम्रभैरव्यारक्तस्थं बलिभोजनम् । नादविन्दुसमायुक्तं किङ्किनी वीजमुत्तमम् ॥ ह्रीं ॥ नादविन्दुसमायुक्तं रक्तस्थं बलिभोजनम् । कालरात्र्यासनोपेतं विशिखाख्यं महामनुम् ॥ ह्रां ॥ विदार्य्यालिङ्गितोग्रात्योवसिस्तक्षतजोक्षतः । नादविन्दुसमायुक्तो विज्ञेयः पिसिताशनम् ॥ हुं ॥ धूम्रध्वजाधः कालाग्निः सोर्द्धकेशीन्दुविन्दुभिः । युगान्तकारकं वीजं भैरवेन प्रकाशितम् ॥ स्फें ॥ कपर्द्दिनं समादाय क्षतजः क्षितिविग्रहम् । संयुक्तं धूम्रभैरव्यां क्षोहयं नादविन्दुमान् ॥ प्रीं ॥ कपालीद्वयमादाय महाकालेन मण्डितम् । समासनमिति प्रोक्तं चण्डिकाढ्यंप्रयोजयेत् ॥ ठं ठं ठः ठः ॥ क्षतजस्थं व्योमवक्त्रं चन्द्रक्षतविभूषितम् । खद्योतमिति संप्रोक्तं ग्रासिनी कालरात्रियुक् ॥ ह्रँ ह्रँ ॥ क्षतजो क्षतमाकाशं नादविन्दुविभूषितम् । विदारी भूषितञ्चैव बीजं वैवस्वतोदृकम् ॥ ह्राँ ॥ कीर्त्त्याख्या कालवक्त्रा च महाकालेन साधितम् ॥ तदनादिपञ्चरश्मिः सृष्टिस्थित्यन्ततद्विधिः ॥ ॐ ॥ व्योमस्थं तालजङ्घास्थं विन्दुनादविभूषितम् । कूर्च्चं कालो महाकालः क्रोधवीजं निरञ्जनम् ॥ हूँ ॥ इति प्राणतोषिणी ॥)



Correction: