वाचस्पत्यम्
वीजक || पु० वीजेन कायति कै—क । १ मातुलङ्गके जटा० २ पीतसारं (विजयासार) भावप्र० ।
शब्दकल्पद्रुमः
वीजकः || पुं, मातुलुङ्गकः इति जटाधरः ॥ वृक्ष- विशेषः । विजयासार इति हिन्दो भाषा । तत्पर्य्यायः । पीतसारः २ पीतशालकः ३ बन्धूकपुष्पः ४ प्रियकः ५ सर्ज्जकः ६ आसनः ७ । अस्य गुणाः । कुष्ठवीसर्पचित्रमेहगुदक्रिमि- श्लेष्मास्रपित्तनाशित्वम् । त्वच्यत्वम् । केश्यत्वम् । रसायनत्वञ्च । इति भावप्रकाशः ॥ (यथा, हरिवंशे । १५५ । २० । “अक्षकैर्व्वीजकैश्चैव मन्दारैश्चोपशोभितम् ॥”)
वीजे, क्ली ॥