शब्दकल्पद्रुमः
वीजोप्तिचक्रं || क्ली (वीजानामुप्तये शुभाशुभसूचकं चक्रम् ।)
वीजवपनजन्यशुभाशुभज्ञानार्थसर्पा- कारचक्रम् । यथा, —
“सूर्य्यभादुरगः स्थाप्यस्त्रिनाड्ये कान्तरक्रमात् । मुखे त्रीणि गले त्रीणि भानि द्बादश तूदरे ॥ पुच्छे चतुर्व्वहिः पञ्च दिनभाच्च फलं वदेत् । वदने चोचकं विद्यात् गलकेऽङ्गारकस्तथा ॥ उदरे धान्यवृद्धिः स्यात् पुच्छे धान्यक्षयो भवेत् । ईतिरोगभयं राज्ये चक्रे वीजोप्तिसम्भवे ॥” सूर्य्यभात् सूर्य्यमुज्यमाननक्षत्रात् । त्रिनाड्ये- कान्तरक्रमादिति यद्यश्विन्यां रविस्तदा तामा- रभ्य गणयेत् । त्रिनाडीषु अश्विनीभरणी- कृत्तिकासु दत्त्वा रोहिणी बहिः कार्य्या मृग- शिरस आर्द्रापुनर्व्वसुनाडीषु दत्त्वा पुष्यो बहिः कार्य्यः । एवं क्रमेणान्या लेख्याः । चोचकं शस्यशून्यताम् । ईतयः । “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः ॥” इति ज्योतिस्तत्त्वम् ॥