वाचस्पत्यम्
वीज्य || त्रि० विशेषेण इज्यः वि + यज—क्यप् वा । कुलीने अमरः
शब्दकल्पद्रुमः
वीज्यः || त्रि (विशेषेण इज्यः पूज्यः । अथवा वीजाय हितः इति । “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् ।)
यस्य कस्यचित् कुलभवः । तत्पर्य्यायः । कुलसंभवः २ । इत्यमरः ॥ वंश्यः ३ कौलकेयः ४ कुलजः ५ । इति शब्दरत्नावली ॥ कुलीनः ६ कुल्यः ७ कुलभवः ८ । इति जटाधरः ॥