संस्कृत-शब्दकोशः

वीणास्य वीतदम्भ

वीत

वाचस्पत्यम्

वीत ||‍ न० वि—इण्—क्त । १ युद्धासमर्थे हस्त्यश्वादिसैन्ये अमरः २ अङ्कुशकर्मणि मेदि० । ३ न्यायाद्युक्ते अनुमानभेदे च । अवीतशब्दे ४६५ पृ० दृश्यम् । ४ शान्ते ५ गते च त्रि० हेमच० ।


शब्दकल्पद्रुमः

वीतं || क्ली (वेति स्म । वी + क्तः । अथवा अजति स्म । अज् + गत्यर्थेति क्तः ।)
असारहस्त्यश्वम् । युद्धाक्षममित्यर्थः । इत्यमरः ॥ अङ्कुशकर्म्म । इति मेदिनी । ते, ५८ ॥ (यथा, माघे । ५ । ४७ । “निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्ज्जनाभिः ॥” सांख्योक्तानुमानविशेषः । यथा, सांख्यतत्त्व- कौमुद्याम् । ५ । “प्रथमं तावद्द्विविधं वीतमवीतञ्च । अन्वय- मुखेन प्रवर्त्तमानं विधायकं वीतम् ॥” अस्य विशेषविवरणं तत्रैव द्रष्टव्यम् ॥ त्रि । कमनीयः । यथा, ऋग्वेदे । ४ । ७ । ६ । “तं शश्वतीषु मातृषु वन आ वीतमश्रितम् ॥” “वीतं कान्तम् ।” इति तद्भाष्ये सायणः ॥)


शब्दकल्पद्रुमः

वीतः || त्रि (विशेषेण एति स्म । वि + इन् + क्तः ।)
शान्तः । इति हेमचन्द्रः ॥ गतः । विपूर्ब्बे नधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, रघौ । ५ । २ । “स मृण्मये वीतहिरण्मयत्वात् पात्रे निधायार्घ्यमनर्घ्यशीलः ॥”)



Correction: