वाचस्पत्यम्
वीतशोक || पु० पु० वीतः विगतः शोको यस्मात् यस्य वा । १ अशोकवृक्षे शब्दच० । २ शोकहीने त्रि० ।
शब्दकल्पद्रुमः
वीतशोकः || पुं, अशोकवृक्षः । इति शब्दमाला ॥ (वीतः शोको यस्मात् । अशोकाष्टम्यां तत्पानेन शोकनाशत्वात्तस्य तथात्वम् । तथा च तिथितत्त्वे । “त्वामशोक हराभीष्ट मधुमाससमुद्भव । पिवामि शोकसन्तप्तो मामशोकं सदा कुरु ॥” विगतः शोको यस्य ।)
विगतशोके, त्रि । (यथा, महाभारते । ३ । १७३ । १० । “सर्व्वकामगुणोपेतं वीतशोकमनामयम् ॥”)