संस्कृत-शब्दकोशः

वीतंम वीतशोक

वीतराग

शब्दकल्पद्रुमः

वीतरागः || पुं, (वीतो रागो विषयवासना यस्य ।)
बुद्धः । इति त्रिकाण्डशेषः ॥ विगतरागे, त्रि । यथा, —
“दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥” इति भगवद्गीता ॥ (यथा च महाभारते । १२ । ३४९ । ४७ । “वीतरागश्च पुत्त्रस्ते परमात्मा भविष्यति । महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥”)



Correction: