संस्कृत-शब्दकोशः

वीति वीथि

वीतिहोत्र

वाचस्पत्यम्

वीतिहोत्र ||‍ पु० वीतवे पुरोडाशादिभक्षणाय हूयन्ते देवा अत्र हु—आधारे त्रल् । १ वह्नौ अमरः २ सूर्य्ये मेदि० ।


शब्दकल्पद्रुमः

वीतिहोत्रः || पुं, (वी गतिकान्त्यसनखादनेषु + कर्म्मणि क्तिन् । वीतिः पुरोडाशादिः हूयते अस्मिन्निति । “हुयामाश्रुभसिभ्यस्त्रन् ।” उणा० ४ । १६७ । इति त्रन् । अथवा वीतये पानाय होत्रं हव्यं यस्य ।)
अग्निः । इत्यमरः ॥ सूर्य्यः । इति मेदिनी । ते, २९७ ॥ (यथा, राजतरङ्गि- ण्याम् । ७ । ३७७ । “अस्मिंस्तु वीतिमारूढे वीतिहोत्रसमे नृपे ॥” प्रियव्रतपुत्त्रान्यतमः । यथा, भागवते । ५ । १ । २५ । “अग्निध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व्व एवाग्निनामानः ॥” राजविशेषः । यथा, महाभारते । ७ । ६८ । १० । “रक्षोवाहान् वीतिहोत्रान् त्रिगर्त्तान् मार्त्ति- कावतान् ॥” हैहयवंशीयराजविशेषः । यथा, हरिवंशे । ३३ । ५० । “तेषां कुले महाराज हैहयानां महात्मनाम् । वीतिहोत्रः सुजाताश्च भोजास्त्ववन्तयः स्मृताः ॥” त्रि, प्राप्तयज्ञः । यथा, ऋग्वेदे । १ । ८४ । १८ । “कस्मै देवा आवहानाशु होम- को मंसते वीतिहोत्रः सुदेवः ॥” “वीतिहोत्रः प्राप्तयज्ञः । *** । वीतिहोत्रः वीगत्यादिषु अस्मात् कर्म्मणि मन्त्रे वृषेत्यादिना क्तिन् स चोदात्तः । होत्रं होमः हुयामाश्रु- भसिभ्यस्त्रन् इति त्रन्प्रत्ययः । वोतिः प्राप्तो होमो येन बहुव्रीहौ पूर्व्वपदप्रकृतिस्वरत्वम् ॥” इति तद्भाष्ये सायणः ॥ कान्तयज्ञः । यथा, ऋग्वेदे । २ । ३८ । १ । “नूनं देवेभ्यो विहिधाति रत्न- मथाभजद्वीतिहोत्रं स्वस्तौ ॥” “वीतिहोत्रं कान्तयज्ञं यजमानं स्वस्तौ अवि- नाशे क्षेमे आ अभजद्भागिनं करोतु ।” इति तद्भाष्ये सायणः ॥)



Correction: