वाचस्पत्यम्
वीथि(थी) || स्त्री विथ—इन् वा ङीप् । १ पङक्तौ २ श्नेणौ ३ गृहाङ्गे ४ वर्त्मनि ५ दृश्यकाव्यभेदे च मेदि० । तल्लक्षणादि सा० द० ६ प० उक्तं यथा “वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाश- भाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः । सूचयेद् भूरि- शृङ्गारं किञ्चिदन्यान् रसानपि । मुखनिर्वहणे सन्धी अर्थप्रकृतयोऽखिलाः” । कश्चिदित्युत्तमो मध्यमोऽधमो वा । शृङ्गारबहुलत्वाच्चास्याः कैशिकीवृत्तिवहुलत्वम् । “अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः । उद्घात्य- कावलगिते प्रपञ्चस्त्रिगतं छलम् । वाक्केल्यधिवले गण्ड- मवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि च तानि तु” । तत्रोद्घात्यकावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते “मिथो वाक्यसमुद्भूतः प्रपञ्चो हास्य- कृन्मतः” । यथा विक्रमोर्वश्याम् । वडभीस्थविदूषक- चेट्योरन्योन्यवचनम् “त्रिगतं स्यादनेकार्थयोजनं श्रु- तिसाम्यतः” । यथा तत्रैव राजा “सर्वक्षितिभृतां नाथ! दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया” । नेपथ्ये तत्रैव प्रतिशब्दः । राजा कथं दृष्टेत्याह । अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् “नटादित्रितयविषयमेवेदमिति” कश्चित् “प्रियाभैरप्रियै- र्वाक्यैर्विलोभ्य छलनाच्छलम्” यथा वेण्यां “भीमार्जुनौ” “कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेगु रुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वास्ते दुर्य्योधनोऽसौ कथयतु न रुषा द्रष्टुमभ्यागतौ स्वः” “अन्ये त्वाहुश्छलं किञ्चित् कार्य्यमुद्दिस्य कम्य- चित् । उदीर्य्यते यद्वचनं वञ्चना हास्यरोषकृत्” । “वाक्के- लिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तिती भवेत्” । द्वित्रीत्युप- लक्षणं यथा “मिक्षो! मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्ग- नाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण वा चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्त कान्या गतिः” । “केचित् प्रक्रान्तवाक्यस्य साकाङ्क्ष स्यैव निर्वृत्तिर्वाक्केलिरित्याहुः” । अन्ये च “अनेकस्व प्रश्नस्यैकमुतरम्” । “अन्यान्यवाक्याधिक्योक्तिः स्पर्द्धया- धिवलं मतम्” । यथा मम प्रभावत्यां वज्रनाभः “अस्य यक्षः क्षणेनैव निर्मथ्य गदयानया । लीलयोन्मू- लयिष्यामि भुवतद्वयभद्य वः” । प्रद्युम्नः । अरेरे असु- रापसद! अलममुना बहुपलापेन मम खलु “अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूह- पातैः । आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया” । “गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सत्वरं वचः” । यथा वेण्यां “राजा” अध्या- सितुं तव चिराज्जघनस्थलस्य पर्य्याप्तमेव करभोरु! ममोरुयुग्मम्” । अनन्तरं प्रविश्य कञ्चुकी । “देव भग्नं भग्नमित्यादि” । अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् । “व्याख्यानं खरसोक्तस्यान्यथावस्य- न्दितं भवेत्” । यथा छलितरामे सीता । जाद काल्लं क्खु अओञ्झाए गन्तव्वं तहिं सो राआ विणएण पणयिदव्यो । लवः । अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यं । सीता । जाद सो तुह्माणं पिदा । लवः । किमावयोः षुपतिः पिता । सीता । साशङ्कं मा अ- ण्णधा संकधं ण क्खु तुह्माणं सअलाए ज्जेव पुहवी ए त्ति” । “प्रहेलिकैव हास्येन युक्ता भवति नालिका” । संवरणकार्य्युत्तरं प्रहेलिका । यथा रत्नावल्यां “सुस- ङ्गता “सहि जस्म कदे तुमं । णंचित्तफलअस्म” । अत्र त्वं रज्ञः कृते आगतेत्यर्थः संवृतः । “असत्प्रलापो यद्वाक्यमसाबद्धं तथोत्तरम् । अगृह्वतोऽपि मूर्खस्य पुरो यच्च हितं वचः” । तत्राद्यं यथा मम प्रभावत्याम् प्रद्युम्नः सहकारवल्लीमवलीक्य सानन्दम्” अहो सा कथमिहैव । “अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी । किशलयपेशलपाणिः कोकिलकल भाविणी प्रियतमा मे” । एवमसम्बद्धोत्तरेऽपि । तृतीयं यथा वेण्यां दुर्य्योधनं प्रति गान्धारीवाक्यम् । “व्या- हारो यत्परस्यार्थे हास्यलोभकरं वधः” । यथा माल- विकाग्निमित्रे । लास्यप्रयोगावसाने मालविका निर्गन्तु- मिच्छति । “विदूषकः । मा दाव उपदेशमुद्धा गमि- स्पसि इत्युपक्रमे गणदासः । विदूषकं प्रति आर्य्य! उच्यतां यस्त्वया क्रमभेदो लचितः । विदूषकः । प {??} पकारनोतिगा इमार लाङ्घदा । मालविका “स्ययते” (तत्र इति पाठान्तरम्) इत्यादिना नायकस्थ विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकादिणा वचसा व्याहारः । “दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत्” । क्रमेण यथा “प्रियजीवितता क्रौर्य्यं निःस्नेहत्वं कृतघ्नता । भूयस्तद्दर्शनादेव ममैते गुणतां गता । तस्यास्तद्रूपसौन्दर्य्यं भूषितं यौवनश्रिया । सुखैकतायनं जातं दुःखायैव ममाधुना” । इति चा- ङ्गानि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यंविधेयानि । विस्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि नानारसानाञ्चात्र मालारूपतया स्थितत्वाद्वीथीयम्” सा० द० ६ प० ।
शब्दकल्पद्रुमः
वीथिः || स्त्री (विथ्यतेऽनया । विथ + इगुपधात् किदितीन् । बाहुलकाद्दीर्घः ।)
वीथी । यथा, —
“पङ्क्तिवर्त्मगृहाङ्गेषु वीथिर्वीथी च वीथिका ।” इति रत्नकोषः ॥ (यथा, राजतरङ्गिण्याम् । ३ । ३६२ । “तद्विना नगरं कुत्र पवित्राः सुलभा भुवि । मुभगाः सिन्धुसम्भेदाः क्रीडावसथवीथिषु ॥” वर्त्मार्थे यथा, राजतरङ्गिण्याम् । ३ । ३०७ । “चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः । धीर त्वयैव न त्वासु सञ्चारो यदि दर्श्यते ॥”)