शब्दकल्पद्रुमः
वीथिका || स्त्री (वीथिरेव । स्वार्थे कन् ततष्टाप् ।) वीथिः । इति शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ७३ । ३० । “अस्ति दक्षिणदिक्प्रान्ते प्रावृषो जन्मभूरिव । पिहितार्का घनश्यामा तमालवनवीथिका ॥”)