वाचस्पत्यम्
वीथी is an alternate of वीथि. वीथि(थी) || स्त्री विथ—इन् वा ङीप् । १ पङक्तौ २ श्नेणौ ३ गृहाङ्गे ४ वर्त्मनि ५ दृश्यकाव्यभेदे च मेदि० । तल्लक्षणादि सा० द० ६ प० उक्तं यथा “वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाश- भाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः । सूचयेद् भूरि- शृङ्गारं किञ्चिदन्यान् रसानपि । मुखनिर्वहणे सन्धी अर्थप्रकृतयोऽखिलाः” । कश्चिदित्युत्तमो मध्यमोऽधमो वा । शृङ्गारबहुलत्वाच्चास्याः कैशिकीवृत्तिवहुलत्वम् । “अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः । उद्घात्य- कावलगिते प्रपञ्चस्त्रिगतं छलम् । वाक्केल्यधिवले गण्ड- मवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि च तानि तु” । तत्रोद्घात्यकावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते “मिथो वाक्यसमुद्भूतः प्रपञ्चो हास्य- कृन्मतः” । यथा विक्रमोर्वश्याम् । वडभीस्थविदूषक- चेट्योरन्योन्यवचनम् “त्रिगतं स्यादनेकार्थयोजनं श्रु- तिसाम्यतः” । यथा तत्रैव राजा “सर्वक्षितिभृतां नाथ! दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया” । नेपथ्ये तत्रैव प्रतिशब्दः । राजा कथं दृष्टेत्याह । अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् “नटादित्रितयविषयमेवेदमिति” कश्चित् “प्रियाभैरप्रियै- र्वाक्यैर्विलोभ्य छलनाच्छलम्” यथा वेण्यां “भीमार्जुनौ” “कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेगु रुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वास्ते दुर्य्योधनोऽसौ कथयतु न रुषा द्रष्टुमभ्यागतौ स्वः” “अन्ये त्वाहुश्छलं किञ्चित् कार्य्यमुद्दिस्य कम्य- चित् । उदीर्य्यते यद्वचनं वञ्चना हास्यरोषकृत्” । “वाक्के- लिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तिती भवेत्” । द्वित्रीत्युप- लक्षणं यथा “मिक्षो! मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्ग- नाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण वा चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्त कान्या गतिः” । “केचित् प्रक्रान्तवाक्यस्य साकाङ्क्ष स्यैव निर्वृत्तिर्वाक्केलिरित्याहुः” । अन्ये च “अनेकस्व प्रश्नस्यैकमुतरम्” । “अन्यान्यवाक्याधिक्योक्तिः स्पर्द्धया- धिवलं मतम्” । यथा मम प्रभावत्यां वज्रनाभः “अस्य यक्षः क्षणेनैव निर्मथ्य गदयानया । लीलयोन्मू- लयिष्यामि भुवतद्वयभद्य वः” । प्रद्युम्नः । अरेरे असु- रापसद! अलममुना बहुपलापेन मम खलु “अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूह- पातैः । आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया” । “गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सत्वरं वचः” । यथा वेण्यां “राजा” अध्या- सितुं तव चिराज्जघनस्थलस्य पर्य्याप्तमेव करभोरु! ममोरुयुग्मम्” । अनन्तरं प्रविश्य कञ्चुकी । “देव भग्नं भग्नमित्यादि” । अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् । “व्याख्यानं खरसोक्तस्यान्यथावस्य- न्दितं भवेत्” । यथा छलितरामे सीता । जाद काल्लं क्खु अओञ्झाए गन्तव्वं तहिं सो राआ विणएण पणयिदव्यो । लवः । अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यं । सीता । जाद सो तुह्माणं पिदा । लवः । किमावयोः षुपतिः पिता । सीता । साशङ्कं मा अ- ण्णधा संकधं ण क्खु तुह्माणं सअलाए ज्जेव पुहवी ए त्ति” । “प्रहेलिकैव हास्येन युक्ता भवति नालिका” । संवरणकार्य्युत्तरं प्रहेलिका । यथा रत्नावल्यां “सुस- ङ्गता “सहि जस्म कदे तुमं । णंचित्तफलअस्म” । अत्र त्वं रज्ञः कृते आगतेत्यर्थः संवृतः । “असत्प्रलापो यद्वाक्यमसाबद्धं तथोत्तरम् । अगृह्वतोऽपि मूर्खस्य पुरो यच्च हितं वचः” । तत्राद्यं यथा मम प्रभावत्याम् प्रद्युम्नः सहकारवल्लीमवलीक्य सानन्दम्” अहो सा कथमिहैव । “अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी । किशलयपेशलपाणिः कोकिलकल भाविणी प्रियतमा मे” । एवमसम्बद्धोत्तरेऽपि । तृतीयं यथा वेण्यां दुर्य्योधनं प्रति गान्धारीवाक्यम् । “व्या- हारो यत्परस्यार्थे हास्यलोभकरं वधः” । यथा माल- विकाग्निमित्रे । लास्यप्रयोगावसाने मालविका निर्गन्तु- मिच्छति । “विदूषकः । मा दाव उपदेशमुद्धा गमि- स्पसि इत्युपक्रमे गणदासः । विदूषकं प्रति आर्य्य! उच्यतां यस्त्वया क्रमभेदो लचितः । विदूषकः । प {??} पकारनोतिगा इमार लाङ्घदा । मालविका “स्ययते” (तत्र इति पाठान्तरम्) इत्यादिना नायकस्थ विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकादिणा वचसा व्याहारः । “दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत्” । क्रमेण यथा “प्रियजीवितता क्रौर्य्यं निःस्नेहत्वं कृतघ्नता । भूयस्तद्दर्शनादेव ममैते गुणतां गता । तस्यास्तद्रूपसौन्दर्य्यं भूषितं यौवनश्रिया । सुखैकतायनं जातं दुःखायैव ममाधुना” । इति चा- ङ्गानि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यंविधेयानि । विस्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि नानारसानाञ्चात्र मालारूपतया स्थितत्वाद्वीथीयम्” सा० द० ६ प० ।
शब्दकल्पद्रुमः
वीथी || स्त्री (वीथि + वा ङीष् ।)
पङ्क्तिः । गृहा- ङ्गम् । (यथा, हरिवंशे । ८३ । १८ । “तावप्युभौ सुवचनौ जग्मतुर्म्माल्यकारणात् । वीथीं माल्यापणानां वै गन्धाघ्रातौ द्विपाविव ॥”)
नाट्यरूपकः । वर्त्म । इति मेदिनी । थे, ११ ॥ (यथा, महाभारते । ५ । ५१ । ३२ । “वीथीं कुर्व्वन् महाबाहुर्द्रावयन् मम वाहि- नीम् । नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥” * ॥
)
अथ वीथी । “वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥ सूचयेद्भूरि शृङ्गारं किञ्चिदन्यान् रसानपि । मुखनिर्व्वहणे सन्धी अर्थप्रकृतयोऽखिलाः ॥ कश्चिदित्युत्तमो मध्यमोऽधमो वा शृङ्गारबहुल- त्वाच्चास्याः कैशिकीवृत्तिबहुलत्वम् ॥ * ॥
अस्यास्त्रयोदशाङ्गानि निर्द्दिशन्ति मनीषिणः । उद्घात्यकावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ वाक्केल्यधिवले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि च तानि तु ॥ * ॥
तत्रोद्घात्यकावलगिते प्रस्तावनाप्रस्तावे सोदा- हरणं लक्षिते ॥ * ॥
मिथोवाक्यसमुद्भूतं प्रपञ्चो हास्यकृन्मतः ॥ यथा, विक्रमोर्व्वश्याम् । वडभीस्थविदूषकचेट्यो- रन्योन्यवचनम् । * । त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥ यथा । तत्रैव राजा । सर्व्वक्षितिभृतां नाथ दृष्टा सर्व्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥ नेपथ्ये तत्रैव प्रतिशब्दः राजा कथं दृष्टेत्याह । अत्र प्रश्नवाक्यमेवोत्तरवाक्यत्वेन योजितम् । नटादित्रितयविषयमेवेदमिति कश्चित् ॥ * ॥
प्रियाभैरप्रियैर्व्वाक्यैर्विलोभ्य च्छलनात् छलम् । यथा, वेण्यां भीमार्ज्जुनौ । कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वास्ते दुर्य्योधनोऽसौ कथयतु न रुषा द्रष्टुम- भ्यागतौ स्वः ॥ अन्ये त्वाहुश्छलं किञ्चित् कार्य्यमुद्दिश्य कस्य- चित् । उदीर्य्यते यद्वचनं वञ्चनाहास्यरोषकृत् ॥ * ॥
वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितोभवेत् ॥ द्वित्रीत्युपलक्षणं यथा, — भिक्षो मांसनिषेवणं प्रकुरुषे किन्तत्र मद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह । तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण वा चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्य कान्या गतिः ॥ केचित् प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निर्व्वृत्ति- र्वाक्केलिरित्याहुः । अन्ये चानेकस्य प्रश्नस्यै- कमुत्तरम् ॥ * ॥
अन्योन्यवाक्याधिक्योक्तिः स्पर्द्धयाधिबलं मतम् ॥ यथा, मम प्रभावत्यां वज्रनाभः । अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया । लीलयोन्मूलयिष्यामि भुवनद्बयमद्य वः ॥ प्रद्युम्नः । अरे रे असुरापसद अलममुना बहु- प्रलापेन मम खलु । अद्य प्रचण्डभुजदण्डसमर्पितोरु- कोदण्डनिर्गलितकाण्डसमूहपातैः । आस्तां समस्तदितिजक्षतजोक्षितेयं क्षौणी क्षणेन पिशिताशनलोभनीया ॥ * ॥
गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सत्वरं वचः ॥ यथा वेण्यां राजा । अध्यासितुं तव चिराज्जघनस्थलस्य पर्य्याप्तमेव करभोरु ममोरुयुग्मम् । अनन्तरं प्रविश्य कञ्चुकी देव भग्नं भग्नमित्यादि । अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् ॥ * ॥
व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ॥ यया छलितरामे सीता । जाद काल्लं कखु उ अञ्झा एण गन्तव्वं तहिं सो राआ विणएण पणायिदव्वो । लवः । अथ किमावाभ्यां राजो- पजीविभ्यां भवितव्यम् । सीता । जादसो तुह्माणं पिदा । लवः । किमावयो रघुपतिः पिता । सीता । साशङ्कं मा अण्णधा सङ्कधणं क्खु तुह्माणं स आलाज्जे एव पुहवीएत्ति ॥ * ॥
प्रहेलिकैव हास्येन युक्ता भवति न लिका ॥ संवरणकार्य्युत्तरं प्रहेलिका । यथा रत्नावल्याम् । सुसङ्गता सहि जस्म कदे तु मं आअदा सो इधज्जेव चिट्टदि साअरिआ कस्म कदे अहं आअदा सुसंणं चित्तफलअस्म । अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः ॥ * ॥
असत्प्रलापो यद्वाक्य मसम्बद्धं तथोत्तरम् । अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥ तत्राद्यं यथा मम प्रभावत्याम् । प्रद्युम्नः सह- कारवल्लीमवलोक्य सानन्दं अहो कथमिहैव । अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी । किशलयपेशलपाणिः कोकोलकलभाषिणी प्रियतमा मे ॥ एवमसम्बन्धोत्तरेऽपि । तृतीयं यथा । वेण्यां दुर्य्योधनं प्रति गान्धारीवाक्यम् । व्याहारो यत् परस्यार्थे हास्यलोभकरं वचः । यथा मालविकाग्निमित्रे । लास्यप्रयोगावसाने मालती निर्गन्तुमिच्छति विदूषकः मादवे उप- देश मुध्वा गमिष्यसि । इत्युपक्रमेण दासः । विदूषकं प्रति आर्य्य उच्यतां यस्तया क्रमभेदो लक्षितः । विदूषकः पौमं । वह्मण पूआभोदि साइ माए लङ्घिदा मालती स्मयत इत्यादिना । नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हास- लोभकारिणा वचसा व्याहारः ॥ * ॥
दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥ क्रमेण यथा, — प्रियजीवितता क्रौर्य्यं नस्नेहत्वं कृतघ्नता । भूयस्तद्दर्शनादेव ममैते गुणतां गताः ॥ तस्यास्तद्रूपसौन्दर्य्यं भूषितं यौवनश्रिया । सुखैकायतनं जातं दुःखायैव ममाधुना ॥ एतानि चाङ्गानि नाटकादिषु संभवन्त्यपि वीथ्यामवश्यं विधेयानि निष्पष्टतया नाटकादिषु विनिविष्टान्यपि इहोदाहृतानि । वीथी च नानारसानाञ्चात्र मालारूपतया स्थितत्वाद्- वीथीयम् । यथा मालविका ।” इति साहित्य- दर्पणम् ॥ * ॥
* ॥
सूर्य्यगमनपथः । यथा, —
“नागवीथ्युत्तरा वीथी अजवीथ्याश्च दक्षिणे । उभे आसाडमूलन्तु अजवीथ्युदयास्त्रयः ॥ अभिजित् पूर्व्वतः स्वाती नागवीथ्युत्तरास्त्रयः । अश्विनी कृत्तिका याम्या नागवीथ्युत्तराः स्मृताः । रोहिण्यार्द्रा मृगशिरो नागवीथिरिति स्मृता ॥ पुष्याश्लेषापुनर्व्वसोर्वीथिरैरावती स्मृता । तिस्रस्तु वीथयो ह्मेता उत्तरो मार्ग उच्यते ॥ पूर्ब्बा उत्तरफल्गुण्योर्मघाश्चैरावती भवेत् । पूर्व्वोत्तरे प्रोष्ठपदे गोवीथी रेवती स्मृता ॥ श्रवणा च धनिष्ठा च वारुणञ्च जरद्गवम् । एताश्च वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥ हस्ता चित्रा तथा स्वाती नागवीथिरिति स्मृता ॥ विशाखमित्रपैत्रश्च नागवीथिरिहोच्यते ॥ मूलपूर्ब्बोत्तराषाढा वीथिर्वैश्वानरी तथा । स्मृतास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे बुधैः ॥” इति मात्स्ये १०१ अध्यायः ॥ * ॥
अपि च । “उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयानं स वै पन्था वैश्वानरपथाद्बहिः । तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः ॥” इति विष्णु पुराणे २ अंशे ८ अध्यायः ॥ * ॥
तत्र ज्योतिश्चक्रे वीथीक्रमो वायुनोक्तः । “सर्व्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तमाः । स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्द्दिष्टमिह तत्त्वतः ॥” तदेव मध्यमोत्तरदक्षिणमार्गत्रयं प्रत्येकं वीथि- त्रयेण त्रिधा भिद्यते । तथा हि त्रिभिस्त्रिभि- रश्विन्यादिनक्षत्रैर्नागवीथी गजवीथी ऐरावती चेत्युत्तरमार्गे वीथित्रयम् । आर्षभी गोवीथी जारद्गवी चेति वैषुवते मध्यमार्गे वीथित्रयम् । अजवीथी मृगवीथी वैश्वानरी चेति दक्षिण- मार्गे वीथीत्रयम् । तदुक्तं तत्रैव । “अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता । रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते ॥ पुष्याश्लेषे तथादित्या वीथी चैरावती स्मृता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ॥ तथा द्वे चापि फल्गुण्यौ मघा चैवार्षभी मता । हस्ता चित्रा तथा स्वाती गोवीथीति तु शब्दिता ॥ ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥ मूलाषाढोत्तराषाढा अजवीथीति शब्दिता । श्रवणञ्च धनिष्ठा च मार्गी शतभिषस्तथा ॥ वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता । एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ॥” याम्या भरणी । आदित्या अदितिदेवताका पुनर्व्वसुः । मार्गी मृगवीथी । एवं स्थिते अगस्त्यादुत्तरमजवीथ्यास्तु दक्षिणम् । किन्तु अगस्त्यनिरूढवर्त्तिनो वैश्वानरपथाद्वहिर्वैश्वा- नरवीथीं विहाय मृगवीथीमात्रं पितृयान- मित्यर्थः । इति तट्टीकायां श्रीधरस्वामी ॥