वाचस्पत्यम्
वीररजस् || न० वीर इव रजः रक्तत्वात् । सिन्दूरे राजनि० ।
शब्दकल्पद्रुमः
वीररजः || [स्] क्ली, (वीराणां वीरभाविनां धार- णार्थं रजः ।) सिन्दूरम् । इति राजनिर्घण्टः ॥ वीरस्य धूलिश्च ॥