वाचस्पत्यम्
वीरासन || न० वीरस्येवासनम् “एकपादमथैकस्मिन् विन्य- सेदूरुसंस्थितम् । इतरस्मिन् तथा पश्चात् वीरासनमिति स्मृतम्” इत्युक्ते आसनभेदे तन्त्रम् । २ भित्त्याद्यनवल- म्बनेन स्थितौ “रात्रौ वीरासनं वसेत्” मनुव्या० कुल्लू० ।
शब्दकल्पद्रुमः
वीरासनं || क्ली (वीराणां साधकानामासनम् ।)
भित्त्याद्यनाश्रित्योपवेशनम् । यथा, —
“दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्द्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् ॥” इति प्रायश्चित्ततत्त्वे मनुः ॥ अन्यच्च । “एकपादमथैकस्मिन् विन्यसेदुरु संस्थितम् । इतरस्मिन् तथा पश्चाद्वीरासनमिदं विदुः ॥” इति घेरण्डसंहिता ॥ (यथा, रघुवंशे । १३ । ५२ । “वीरासनैर्ध्यानजुषामृषीणा- ममी समध्यासितवेदिमध्याः । निर्व्वातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥”)