संस्कृत-शब्दकोशः

वीरासन वीरुधा

वीरिणी

शब्दकल्पद्रुमः

वीरिणी || स्त्री असिक्नी । यथा, —
“उपयेमे वीरणस्य तनयां दक्ष ईप्सिताम् । वीरिणी नाम तस्यास्तु असिक्नीत्यपि सत्तमाः ॥” इति कालिकापुराणे ८ अध्यायः ॥ (यथा च महाभारते । १ । ७५ । ५ । “वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः । आत्मतुल्यानजनयत् सहस्रं शंसितव्रतान् ॥” वीरः पुत्त्रोऽस्या अस्तीति । वीर + इनि । ङीप् । पुत्त्रवती । यथा, ऋग्वेदे । १० । ८६ । ९ । “उताहमस्मि विरिणीन्द्रपत्नी ॥” “विरिणी पुत्त्रवती ।” इति तद्भाष्ये सायणः ॥)



Correction: