संस्कृत-शब्दकोशः

वीरेश वीरोज्झ

वीरेश्वर

वाचस्पत्यम्

वीरेश्वर ||‍ त्रि० ६ त० । १ वीरपतौ काशीस्थे २ शिवलिङ्गभेदे पु० तदाविर्भवकधा काशीख० ८२ अ० दृश्या ।


शब्दकल्पद्रुमः

वीरेश्वरः || पुं, (वीराणामीश्वरः ।)
महादेवः । यथा, —
“तिलान्तरोऽपि नो काश्यां भूमिर्लिङ्गं विना क्वचित् । परं वीरेशसदृशं न लिङ्गन्त्वाशु सिद्धिदम् ॥ धर्म्मदञ्चार्थदं सम्यक् कामदं मोक्षदं तथा । यथा वीरेश्वरं लिङ्गं काश्यां नान्यत्तथा ध्रुवम् ॥” इति काशीखण्डे १० अध्यायः ॥ (मैथिलानां दशकर्म्मपद्धतिकर्त्ता । तत्पद्धतिश्च ॥)



Correction: