वाचस्पत्यम्
वीरोज्झ || पु० वीरो यज्ञाग्निस्तमुज्झति यथाकालमननुष्ठानेन उज्झ—अण् । प्रातःसायं हीमाकर्त्तरि हेमच० ।
शब्दकल्पद्रुमः
वीरोज्झः || पुं, होमाकर्त्ता । यथा, — “अभ्युदिताभिनिर्म्मुक्तौ वीरोज्झो न जुहोति यः ॥” इति हेमचन्द्रः ॥