वाचस्पत्यम्
वीसर्प is an alternate of विसर्प. वि(वी)सर्प || पु० वि + सृप—घञ् वा दीर्घः । रोगभेदे तल्लक्ष- णादि भावप्र० उक्तं यथा तत्र विसर्पविप्रकृष्टनिदानं संख्यां निरुक्तिञ्चाह “लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः । विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात्” आदिशब्दाच्चर- कोक्तहरितशाकभण्डाकीप्रभृतीनां ग्रहणम् । सप्तधात्वं विवृणोति “वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः । चात्वारः एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः । आग्नेयो वातपित्ताभ्यां ग्रन्थिस्थः कफवातजः । यस्तु कर्दमको थोरः स पित्तकफसम्भवः” । विसर्पदोषदूष्याणि संगृह्याह “रक्तं लसीकात्वङ्मांसं दूष्यं दोषास्त्रयो मलाः । विस- र्पाणां समुत्पत्तौ हेतवः सप्त धातवः” । त्रयो मलाः वात- पित्तकफाः दोषा दूषका इत्यर्थः । अन्यथा दोषामला इत्यत्र पुनरुक्तिदोषो लगिष्यते । वातिकस्य लक्षणमाह “तत्र वातात्परीसर्पो वातज्वरसमव्यथः । शोफस्फुरण- निस्तोदभेदायामार्तिहर्षवान्” । परीसर्पो विसर्पः । वातज्वरसमव्यथः शिरोहृद्गात्रोदरशूलादियुक्तः । भेदः विदारणेनेव व्यथा । आयामः आकर्षणेन व्यथा । पैत्तिकमाह “पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽति- लोहितः” । द्रुवगतिः शीथ्रप्रसरणशीलः । अथ श्लै- ष्मिकमाह “कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्” । सान्निपातिकमाह “सन्निपातसमुत्थश्च सर्वरूपसमन्वितः” । वातपैत्तिकमाह “वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्- भ्रमैः । अस्थिभेदोऽग्निमदनतमसारोचकैर्युतः । करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् । यं यं देशं विसर्पश्च विसर्पति भवेत् स सः । शीताङ्गारासितो वीतो रक्तो वा सूपचीयते । अग्निदग्ध इव स्फाटः शीघ्रगत्वाद् द्रु- तञ्च सः । मर्मानुसारी वीसर्पः स्याद्वातातिवन्तुस्ततः । व्यथेताङ्गं हरेत् संज्ञां निद्राञ्च श्वासमीरयेत् । हिध्माञ्च स गतोऽवस्थामीदृशीं लभते नरः । कचिच्छर्माऽरति- ग्रस्तो भूमिशय्यासनादिषु । चेष्टमानस्ततः क्लिष्टो मनो देहसमुद्भवाम् । दुःप्रबोधोऽश्रुते निद्रां सोऽग्निवीसर्प उच्यते” । स्फोटः सूपचीयत इत्यन्वयः । “मर्मानु- सारी उदरहृदयानुसारी हरेत् विसर्प इत्यन्वयः हिघ्मां हिक्काम् ईरयेत् उपर्य्युपरि प्रेरयेत् । मनोदेहसमुद्भवां निद्रां मरणरूपाम् । अश्नुते प्राप्नोति । वातश्चैष्मिकं ग्रन्थिविसर्पमाह “कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् । रक्तञ्च वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् । दूषयित्वा तु दीर्घार्युवृत्तस्थूलखरात्मनाम् । ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् । श्वासकासाति- सारांश्च शोषहिक्कावमिभ्रमैः । मोहवैवर्ण्यमूर्च्छाङ्ग- मङ्काग्निसदनैर्युतः । इत्ययं ग्रन्थिवीसर्पो वातश्लेष्म- प्रकोपजः” । कफेन स्वहेतुदुष्टेन पवनोऽपि स्वहेतु- दुष्टः । तेनायं वातश्लैष्मिकः । तं कफं बहुधा भित्त्वा रक्तं वा दूषययित्वेत्यन्वयः । त्वगादिकमिति रक्तस्य विशेषणम् । अथ पित्तश्लैष्मिकं कर्दमाख्यं विसर्पमाह “कफपित्तज्वरस्तम्मनिद्रातन्द्राशिरोरुजाः । अङ्गा- वसादविक्षेपप्रलापारोचकम्रमाः । मूर्च्छाग्नि हानिर्भेदो- ऽस्थ्नां पिपासेन्द्रियगोरवा । आगोपवेशनं लेपः स्रोत- साञ्च विसर्पति । प्रायेणामाशयं गृह्णन्नेकदेशं न चाति- रुक् । पोडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः । न्वि- ग्धोऽसितो मेचकाभो मलिनः शोफवान् गुरुः । गम्भीर- पाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्य्यते । पङ्कत्वक्शीर्ण- मांसश्च स्पृष्टस्नायुसिरागणः । शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्” । स च सर्पति एकदेशमित्यन्वयः । सीडकैः पीडाकारिभिः । अवकीर्णः व्याप्तः । असितः कणः । मेचकः रूक्षकृष्णः । प्राज्योष्मा प्रचुरोष्मा । स्पृष्टः क्लिन्नोऽवदीर्य्यते । स्पृष्टः सन्नार्द्रो भवति विदी- र्य्यते । पङ्कत्वक् कर्दमवर्णत्वक् यत्र सः । शीर्णमांसः गलितमासः । अत एव स्पृष्टस्नायुसिरागणः । सान्नि- पातिवकाह “सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः” । अथ क्षतजं विसर्पमाह “बाह्यहेतोः क्षतात् क्रुद्धः स- रक्तं पित्तमीरयन् । विसर्पं मारुतः कुर्य्यात् कुलात्यसदृशै- श्चितम् । स्फोटैः शोथज्वररुजादाहाद्यं श्यावशोणितम्” । वाह्यहेतोः शस्त्रषहारव्यालदन्तनखाद्यागन्तुहेतोः । श्या- वशोणितं कृष्णवर्णरक्तम् । उपद्रवानाह “ज्वरातिसारौ वमथुस्त्वग्मांसदरणक्लम्भः । अरोचकविपाकौ च विसर्पा- णामुपद्रवाः” । साध्यत्वादिकमाह “सिद्ध्यन्ति वातकफ- पित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति । पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव” ।