वीसर्प
वुग
वीहार
वाचस्पत्यम्
वीहार || पु० विह्रियतेऽत्र वि + हृ—आधारे घञ् दीर्घः । १ बुद्ध- मन्दिरे शब्दच० ।
शब्दकल्पद्रुमः
वीहारः || पुं, (विहरन्त्यत्रेति । वि + हृ + घञ् । उपसर्गस्य दीर्घः ।)
महालयः । स तु बुद्ध- मन्दिरम् । इति शब्दमाला ॥ विहारः । इत्यमरटीका ॥