शब्दकल्पद्रुमः
वुड || शि संवृतिसंहत्योः । मज्जे । इति कविकल्प- द्रुमः ॥ (तुदा०-कुटा०-पर०-सक०-अकञ्च-सेट् ।) रेफयुक्तः । शि, व्रुडति अव्रुडीत् वुव्रोड । मज्जो मज्जनम् । इति दुर्गादासः ॥