संस्कृत-शब्दकोशः

वुड वृ

वुद्धि

शब्दकल्पद्रुमः

वु(बु)द्धिः || स्त्री (वुध + क्तिन् ।)
आत्मनो गुण- विशेषः । सा त्रिविधा यथा, —
“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ अधर्म्मं धर्म्ममिति या मन्यते तमसावृता । सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥” इति श्रीभगद्गीतायाम् १८ अध्यायः ॥



Correction: