वाचस्पत्यम्
वृण || भक्षर्ण तना० उभ० सक० सट् । वृणोति वर्णोति वृणुते अवर्णीत् अवर्णिष्ट । उदित् क्त्वा वेट् ।
शब्दकल्पद्रुमः
वृण || द ञ उ भक्षे । इति कविकल्पद्रुमः ॥ (तना०- उभ०-सक०-सेट् । क्त्रावेट् ।)
द ञ, वृणोति वर्णोति वृणुते वर्णुते । उ, वर्णित्वा वृत्वा । इति दुर्गादासः ॥