संस्कृत-शब्दकोशः

वृण वृतपत्रा

वृत

वाचस्पत्यम्

वृत ||‍ त्रि० वृ—क्त । १ प्रार्थिते २ वर्त्तुले ३ कर्मादौ प्रार्थनादिना कृतनियोगे ४ स्वीकृते च अमरः ।


वाचस्पत्यम्

वृत ||‍ दीप्तौ चु० उभ० सक० सेट् । वर्त्तयति ते अवीवृतत् त अयवर्त्तत् त ।


वाचस्पत्यम्

वृत ||‍ पर्त्तने भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक० सेट् । वर्त्तते । अवृतत् अवर्त्तिष्ट ऌटि ऌङि च पर० नेट् वर्त्स्यति वर्त्तिष्यते । सनि च तथा विवर्त्तिषते, विवृत्सति । उदित् क्त्वा वेट् ।


वाचस्पत्यम्

वृत ||‍ संभक्तौ, वरणे च दि० आत्म० सक० सेट् । वृत्यते अव- र्त्तिष्ट । उदित् क्त्वा वेट् ।


शब्दकल्पद्रुमः

वृत || क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर० -अक०-सेट् ।)
क, वर्त्तयति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृत || ङ उ व ऌ वर्त्तने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-स्यसनोः उभ०-अक०-सेट् । क्त्वावेट् ।)
ङ, वर्त्तते । उ, वर्त्तित्वा वृत्त्वा । व, वर्त्स्यति विवृत्सति । ऌ, अवृतत् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृतः || त्रि (वृ + क्तः ।)
कृतवरणः । तत्पर्य्यायः । वृत्तः २ वावृत्तः ३ । इत्यमरः ॥ (यथा, हरि- वंशे । १२७ । १७ । “तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥”)
आवृतश्च ॥


शब्दकल्पद्रुमः

वृत || य ङ उ सम्भक्तौ । वरणे । इति कविकल्प- द्रुमः ॥ (दिवा०-आत्म०-सक०-सेट् । क्त्वावेट् ।)
य ङ, वृत्यते । उ, वर्त्तित्वा वृत्त्वा । सम्भक्तिः सेवनम् । इति दुर्गादासः ॥



Correction: