वाचस्पत्यम्
वृति || स्त्री वृ—क्तिन् । वेष्टने (वेड) “वृतिञ्च तत्र कुर्व्वीत” याज्ञ०
शब्दकल्पद्रुमः
वृतिः || स्त्री (वृ + क्तिन् ।)
वेष्टनम् । तत्पर्य्यायः । वरः २ । इत्यमरः ॥ (यथा, —
“न हि च्छायादानैः पथिकजनसन्तापहरणं फलैर्व्वा पुष्पैर्व्वा न सुरमनुजप्रीणनमपि । अरे रे मन्दारद्रुम सहजमेतत्त्वनुचितं वृतीभूतो रक्षस्यपरमपरेषां फलमपि ॥” इत्युद्भटः ॥)
प्रार्थनाविशेषः । इत्यत्ये । इति भरतः । वर- णम् । इति मेदिनी ॥ गोपनम् । इति शब्द- रत्नावली ॥