संस्कृत-शब्दकोशः

वृत्तकर्कटी वृत्तगुण्ड

वृत्तगन्धि

वाचस्पत्यम्

वृत्तगन्धि ||‍ न० वृत्तस्य पद्यभेदस्य इव गन्धो लेशोऽत्र इत् समा० । “भवत्युत्कालिकाप्रायं समासाढ्यं दृढाक्षरम् । वृत्तैकदेशसम्बन्धात् वृत्तगन्धि पुनःस्मृतम्” इत्युक्ते गद्यभेदे


शब्दकल्पद्रुमः

वृत्तगन्धि || क्ली (वृत्तस्य पद्यस्य गन्धो लोश इव गन्धो यस्मिन् ।)
गद्यविशेषः । तस्य लक्षणं यथा, —
“भवत्युत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् । वृत्तैकदेशसम्बन्धात् वृत्तगन्धि पुनः स्मृतम् ॥” तस्य उदाहरणं यथा । जय जय जनार्द्दन सुकृतिजनमनस्तडागविकस्वरचरणपद्मपद्मनयन- पद्मापद्मिनीविनोदराजहंसभासुरयशःपटल- परिपूरितभुवनकुहर । हरकमलासनादिवृन्दा- रकवृन्दवन्दनीयपादारविन्दद्वन्द्वनिर्म्मुक्तयोगीन्द्र- हृदयमन्दिरावितस्नुनिरञ्जनज्योतिःस्वरूपनाथ नाथ जगन्नाथ मामनवधिभवदुःखव्याकुलं रक्ष रक्ष । इति छन्दोमञ्जर्य्याम् ६ स्तवकः ॥



Correction: