शब्दकल्पद्रुमः
वृत्तगुण्डः || पुं, तृणविशेषः । तत्पर्य्यायः । वृत्तः १ दीर्घनालः ३ जलाश्रयः ४ । द्बिधायं एकः स्थूलः द्वितीयो लघुः । अस्य गुणाः । मधु- रत्वम् । शीतत्वम् । कफपित्तातिसारदाहरक्त- नाशित्वम् । तेषां मध्ये स्थूलतरस्याधिकगुण- त्वञ्च । इति राजनिर्घण्टः ॥