वाचस्पत्यम्
वृत्तफल || न० वृत्तं फलमस्य । १ मरीचे २ दाडिमे ३ वदरे च । ४ वःर्त्ताक्याम् ५ आमलक्याञ्च स्त्री टाष् राजनि० ।
शब्दकल्पद्रुमः
वृत्तफलं || क्ली (वृत्तं वर्त्तुलं फलं यस्य ।)
मरी- चम् । इति राजनिर्घण्टः ॥ गोलफलमात्रञ्च ॥
शब्दकल्पद्रुमः
वृत्तफलः || पुं, (वृत्तं फलं यस्य ।)
दाडिमः । वदरः । इति राजनिर्घण्टः ॥