वाचस्पत्यम्
वृथा || अव्य० वृ—थाल् किच्च । निरर्थके अमरः ।
शब्दकल्पद्रुमः
वृथा || व्य, निरर्थकः । तत्पर्य्यायः । मुधा २ व्यर्थ- कम् ३ अविधिः ४ । इत्यमरः ॥ यथा, —
“अदण्डपाशिको ग्रामो अदासीकञ्च यद्गृहम् । अनाज्यभोजनं यच्च वृथा तदिति मे मतिः ॥” इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥ अपि च । “वृथा वृष्टिः समुद्रस्य तृप्तस्य भोजनं वृथा । वृथा दानं समृद्धस्य नीचस्य सुकृतं वृथा ॥” इति गारुडे ११५ अध्यायः ॥