शब्दकल्पद्रुमः
वृथाजन्म || [न्] क्ली, (वृथा निरर्थकं जन्म ।)
निरर्थकजननम् । यथा, —
“वृथा जन्मानि चत्वारि वृथा दानानि षोडश । तान्यहं संप्रवक्ष्यामि यथावदनुपूर्ब्बशः ॥ अपुत्त्रस्य वृथा जन्म धर्म्मवाह्या नराः सदा । परपाकं सदाश्वन्ति परतापरताश्च ये ॥” इत्याद्ये वह्निपुराणे दानावस्थानिर्णयनामा- ध्यायः ॥ अपि च । “येर्न श्रुतं भागवतं पुराणं नाराधितो यैः पुरुषः प्रधानम् । मुखे हुतं यैर्न धरामराणां तेषां वृथा जन्म नराधमानाम् ॥” इति पुराणम् ॥