संस्कृत-शब्दकोशः

वृथाजन्मन् वृथामांस

वृथादान

वाचस्पत्यम्

वृथादान ||‍ न० कर्म० । १ निष्फलदाने स्मृतिप्रदर्शिते देवपित्रा- द्यर्थमिन्नेषु कार्य्येषु २ दानभेदे च । “देवपितृविहीनं यदीश्वरेर्भ्यः स्वदोषतः । दत्त्वामुकीर्त्त नाच्चैव वेदाग्निव्रतत्यागिने । अन्थायोपार्जितं दाक व्यर्थं ब्रह्महणे तथा । गुरवेऽनृतवक्त्राय स्तेनाय पति- ताय च । कृतघ्नाय च यद्दत्तं सर्वदा ब्रह्मविद्विषे । या- जकाय च सर्वस्य वृषल्याःपतये तथा । परिचारकाय नृत्याव सर्वत्र पिशुनाय च । इत्येतानि तु राजेन्द्र! वृथादानानि षोडश” वह्निपु० । “न्यायमार्गेण यदृत्तं तत्मप्तविधमपि पुनर्नापहर्त्तव्यं थत् पुनरन्थायेन दत्तं तददत्तं षोडशप्रकारमपि पत्याहर्त्तव्यमेव इत्यर्थादुक्तं भवति । नारदेन च दत्तं सप्तविध—प्रोक्तमदत्तं षोड- शात्मकम्” इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतं यथा “पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः । स्त्री- शुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः । अदत्तन्तु भय- क्रोधशोकवेगरुजांन्वितैः । तथोत्कोचपरिहासव्यत्यास च्छलयोगतः । वालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितम् । कर्त्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् । अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्मसंहिते । यद्दत्तं स्यादवि- ज्ञानाददत्तमिति तत् स्मृतम्” मिता० अदत्तशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

वृथादानं || क्ली (वृथा निरर्थकं दानम् ।)
निष्फल- दानम् । तत् षोडशविधम् । यथा, —
“देवपितृविहीनं यदीश्वरेभ्यः सदोषतः । दत्त्वानुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने ॥ अन्थाबोपार्ज्जितं दानं व्यर्थं ब्रह्महणे तथा । गुरवेऽनृतवक्ता यः स्तेनाय पतिताय च ॥ कृतघ्नाय च यद्दत्तं सर्व्वदा ब्रह्मविद्विषे । पाचकाय च सर्व्वस्य वृषल्याः पतये तथा ॥ परिचारकाय भृत्याय सर्व्वत्र पिशुनाय च । इत्येतानि तु राजेन्द्र वृथादानानि षोडश ॥” इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥ अन्यच्च । न्यायमार्गेण यद्दत्तं तत् सप्तविधमपि पुनर्नापहर्त्तव्यम् । यत् पुनरन्यायेन दत्तं तददत्तं षोडशमपि प्रत्याहर्त्तव्यमेव । इत्यर्थादुक्तं भवति । नारदेन च । “दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम् ।” इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम् । “पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥ अदत्तन्तु भयक्रोधशोकवेगरुजान्वितैः । तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम् । कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्म्मसंहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतम् ॥” इति मिताक्षरा ॥



Correction: