संस्कृत-शब्दकोशः

वृथादान वृद्ध

वृथामांस

वाचस्पत्यम्

वृथामांस ||‍ न० वृथाभूतं मांसम् शा० क० । देवाद्यनुद्देशेन हतपशूनां मांसे ।


शब्दकल्पद्रुमः

वृथामांसं || क्ली (वृथा निरर्थकं मांसम् ।)
देवपित्र- नुद्दिष्टमांसम् । तद्भक्षणे प्रेतत्वं भवति । यथा, “वृथारेता वृथामांसो वृथावादी वृथामतिः । निन्दको द्विजदेवानां स प्रेतो जायते नरः ॥” इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥



Correction: