संस्कृत-शब्दकोशः

वृथामांस वृद्धकाक

वृद्ध

वाचस्पत्यम्

वृद्ध ||‍ न० वृध—क्त । १ शैलजनामगन्धद्रव्ये अमरः । २ वृद्धदारके वृक्षे पु० राजनि० । ३ वृद्धियुक्ते त्रि० ४ गतयौवने वृद्धा- वस्थायुक्ते । बाल्यादिवयःकालभेदश्च भावप्र० उक्तो यथा “बाल्यादेरवधिमाह मुश्रुतः “वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकं तथा । ऊनषोडशवर्षस्तु नरो बालो निगद्यते । त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशो तथान्न- भुक् । दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् । तदु- त्तरं स्यादन्नाशो एवं बालस्त्रिधा मतः । मध्ये षोडश- सप्तत्योर्मध्यमः कथितो बुधैः । चतुर्धा मध्यमं प्राहुर्युवा द्धात्रिंशतो मतः । चत्वारिंशत् समा यावत्तिष्ठेद्वीर्य्यादि- पूरितः । ततः क्रमेण क्षीणः स्याद् यावद् भवति स- प्तति” । वीर्व्यादीत्यादिशब्देन रसादिसर्वधात्विन्द्रिय- यलोत्साहा उच्यन्ते । क्षीणः सवधात्विन्द्रियबलोत्- साहैर्हीनः “ततस्तु सप्ततेरुर्द्ध्वं क्षीणधातुरसा- दिकः । क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने । बलोपलितखालित्ययुक्तः कर्मसु चाक्षमः । कासश्वासा- दिभिः क्लिष्टो वृद्धो भवति मानवः । बाल्ये विवर्द्धते श्लेष्मा पित्तं स्यान्मध्यमेऽधिकम् । बार्द्धक्ये वर्द्धते वायु- र्विचार्व्यैतदुपक्रमेत्” । उपक्रमेत् चिकित्सेत् । तन्त्रा- न्तरे तु “बलवृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ । षुद्धिः कर्मेन्द्रियं चतो जीवितं दशतो ह्रसेत्” । ५ पण्डिते पु० मेदि० ।


शब्दकल्पद्रुमः

वृद्धं || क्ली शैलजनामगन्धद्रव्यम् । इत्यमरः ॥


शब्दकल्पद्रुमः

वृद्धः || त्रि (वृधु वृद्धौ + क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति नेट् ।)
गतयौवनः । प्रवृद्धः । (यथा, मनुः । २ । १५६ । “न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥”)
पण्डितः । इति मेदिनी ॥ आद्यस्य पर्य्यायः । प्रवयाः २ स्थविरः ३ जीनः ४ जीर्णः ५ जरन् ६ । इत्यमरः ॥ यातयामः ७ जर्ज्जरः ८ । इति राजनिर्घण्टः ॥ पलितः । इति जटाधरः ॥


शब्दकल्पद्रुमः

वृद्धः || पुं, वृद्धदारकः । इति राजनिर्घण्टः ॥



Correction: