वाचस्पत्यम्
वृद्धि || स्त्री वृद्ध—क्तिन् । १ समृद्दौ २ अभ्युदये मेदि० ३ सम्पत्तौ ४ समूहे च । वृध—कर्त्तरि क्तिच् । ५ औषधिविशेषे ऋद्धिशब्दे १४४७ पृ० तल्लक्षणादि दृश्यम् । (कोरन्द) ६ रोगविशेषे तन्निदानादि भावप्र० उक्तं यथा “तत्र वृद्धेर्निदानं संख्याञ्चाह “दोषास्रमेदोमूत्रान्त्रेः संवृद्धिः सप्तधा गदः । मुत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलः । वृद्धिं करोति कोषस्थः फलकोषाभिवाहिनीम् । छद्ध्वा रुद्धगतिर्वायुर्धमनीः मुष्कगामिनीः । तत्र वाति- कमाह “वातपूर्णदृतिप्रख्यो रूक्षो वातादहतुरुक्” । अहेतुरुक् अत्रेषदर्थे नञ् । तेन स्वल्पादपि विप्रकृष्टात् कारणात् रुक् पीडा यत्र सः । अथ पैत्तिकमाह “पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपावकात्” । दाहः अभ्यन्तरः ऊष्मा वहिस्तप्तता । अथ श्लौष्मकमाह “कफा- च्छीतो गुरुःस्निग्धः कण्डूमान् कठितोऽल्परुक्” । अथ रक्तजमाह “कृष्णस्फाटावृतः पित्तवृद्धिलिङ्गश्च र- क्तजः” । कृष्णस्फोटावृत इति पैत्तिकोद्भवः । मेदोज- माह “कफवन्मेदसो वृद्धिर्मृदुस्तालफलोपमः” । नील- वर्त्तुलः । मूत्रजमाह “मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः । अम्भोभिः पूर्णदतिवत् क्षोभं याति सरुङ् मृदुः । मूत्रकृच्छ्रमधः कुर्य्यात् सञ्चलन् फलकोषयोः” । सञ्चलन् फलकोषयोरधः मूत्रकृच्छ्रं मूत्रेण व्यथां कु- र्यादित्यर्थः । अथान्त्रवृद्धिसाह “वातकोपिभिराहारैः शीततोयावगाहनैः । धारणेरणभाराध्वविषमाङ्गप्रव- र्त्तनैः । क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा । पवनो विगुणीकृत्य स्वनिवेशादधो नयेत् । कुर्य्याद् वङ्क्षण- सन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा” । धारणम् उपस्थि- तस्य येमस्य । ईरणम् अनुपस्थितस्य वेगस्य प्रेरणम् । विषमाङ्गप्रवर्त्तनं वक्रत्वेनाङ्गमोटनम् । अन्यानि क्षो- भणानि बलवद्विग्रहकठारधनुराकर्षणादीनि तैः क्षो- मितः सन्दुष्य सञ्चालितः पवनः यदा क्षुद्रान्त्रावयवं विगुणीकृत्य स्वनिवेशादधो नयेत् । तदावङ्क्षणसन्धिस्थः अन्त्रवृद्धिरोगः । तस्यावस्थामाह । “उपेक्ष्यमाणस्य मरुद्वि- वृद्धिमाधानरुक् स्तम्भमतोव कुर्य्यात् । प्रपीडितोऽन्तः- स्वनवान प्रयाति प्रध्मापयन्नेति पुनश्च मुष्कम्” । तत्रा- ध्मानमुदरे रुग् वृद्धयोर्मुष्कयोः स्तम्भो गात्रे तद्युक्तां कुर्य्यादित्यिर्थः । भोजोऽप्याह “अन्त्रं विगुणमादाय वातो नयति वङ्क्षणम् । वङ्क्षणात् तद्रुजायुक्तं फलकोषं प्रपद्यते” इति । स मुष्कवृद्धिरोगः अन्तः उदरे प्रध्माप- यन् आगमनमार्गं मिरुद्धं कुर्वन् एति आयाति । अथासाध्यमाह स कीदृक् स्यादित्याकाङ्क्षयामाह “यस्या- न्त्रावयवाश्लेषो मुष्कयोर्वातसञ्चयात् । अन्त्रवृद्धिरसाध्यो- ऽयं वातवृद्धिसमाकृतिः” । वातवृद्धिपमाकृतिरिति यो- ऽन्त्रवृद्धिरोगः साऽसाध्या वातवृद्धिसमाकृतिः” । अन्त्र- वृद्धिशब्दे २०८ पृ० सुश्रुताक्तं दृश्यम् नीतिक्षयादि त्रिवर्गान्तर्गते ७ वर्गघटकुपदार्थे “क्षयः स्थानञ्च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” अमरः । “कृषिर्वाणक् पथोदुर्गं सेतुःकुञ्जरबन्धतम् । कत्यःकरवतादान सैन्यानाञ्च विना- शनम्” । एतेषामष्टानामन्यतमस्य क्षयं स्थान वृद्धिश्चेत्यर्थः । ८ कलान्तरे (सुद) वृद्धिस्वरूपभेदादिकं वीरमि० उक्तं यथा नारदः “वृद्धिश्चतुर्विधा प्रोक्ता ग्रञ्चधाऽन्यैः प्रकीर्त्तिता । षड्विधाऽन्यैः समाख्याता तत्त्वतस्तां निवाधत” इति । षड्विधा मे इति क्वचित् पाठः तत्र मे मते । तान् प्रकारान् स एवाह “कायिका १ कालिका २ चैव चक्रवृद्धि ३ रतोऽपरा । कारिता ४ सशिखा ५ वृद्धिर्भोगलाभ ६ स्तथैव चेति” । एतेषां स्वरूपगाह “का- यिका कर्मसंयुक्ता मासग्राह्या तु कालिका । वृद्धेर्वृद्धि- श्चक्रवृद्धिः कारिता ऋणिना कृता । प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता । गृहात्तोषः फलं क्षेत्राद् भ गलाभः प्रकीर्त्तितः” इति । कायिका कर्म- संयुक्ता यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवाहनादिकं कर्स वृद्धित्वेन परिकल्पितं तत्र सा कायिकेत्यर्थः । तथा च व्यासः “दोह्यवाह्यकर्मयुता कायिका समुदाहृतेति” । मदनरत्ने तु भोग्याधितया स्थापितस्य यो दोहनवाहना- दिकर्मरूपैर्मोगस्ततफलिका या वृद्धिः सा कायिकेत्यु- क्तम् । मासग्राह्या तु कालिका प्रतिमासं लभ्या या वृद्धिः सा कालिकेत्यर्थः । “प्रतिसासं स्रवन्ती या वृद्धिः सा कालिका मतेति” नारदवचनात् । वृद्धेर्वृद्धिश्चक्रवृद्द्धिः । वृद्धेरपि प्रतिमासं मूलभावेन पुनर्वृद्धिरित्यर्थः । “वृद्धेरपि पुनर्वृद्धिश्चकवृद्धिरुदाहृतेति” नारदवचनात् । कारिता ऋणिना कृता । ऋणिनाऽधमर्णेन स्वे- च्छया कृता वृद्धिः कारितेत्यर्थः । “वृद्धिः सा कारिता नाम यर्णिकेन स्वयं कृतेति” नारदवचनात् । अधमर्णकारितैव वृद्धिर्देया नोत्तमर्णकारिता तथा च वृहस्पतिः “ऋणिकेन तु या वृद्धिरधिका सम्प्र- कल्पिता । आपत्कालकृता नित्यं दातव्या सा तु का- रिता । अन्यथा कारिता वृद्धिर्न दातव्या कथञ्चनेति” । उत्तमर्णप्रलोमनार्थम् आपत्कल शास्त्रोक्तादधिका स्वयं कुल्पिता कारिता या सा सुद्धिर्दातव्या न पुनरनेवंविधा धनिकेन कारिता दातव्येत्यर्थः । “प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता” । प्रतिदिनलभ्यात्मशिखासादृ- श्याच्छिस्वावृद्धिरिति व्यपदिश्यत इत्यर्थः । किंपुनः शि- खासादृश्यं वृद्धेरित्याकाङ्क्षायां वृहस्पतिरेवाह “शि- खेव वर्द्धते नित्यं शिरश्छेदान्निवर्त्तते । मूले दत्ते तथै- वैषा शिखावृद्धिस्तु सा स्मृतेति” । प्रत्यहं गृह्यत इति अ धर्मणप्रतिश्रुतदिनसंख्यया वृद्धिग्रहणकालोपलक्षणम् । तथा च कात्यायनः “प्रतिकालन्ददात्येव शिखावृद्धिस्तु सा स्मृतेति” । “गृहात्तोषः फल क्षत्राद् भोगलाभः प्रकी- र्त्तितः” । बन्धकीकृताद् गृहान्निवासादिजनितः स- न्तोषः । क्षेत्रात् शस्यादिफलञ्च भोगलाभाख्यो वृद्धिप्र कार इत्यर्थः । गृहक्षेत्रग्रहणं स्थावरात्मकभोग्याधे- रुपसक्षणार्थम् । अतएव कात्यायनः “काधेर्भोगस्त्व शेषो यो वृद्धये पारकल्पितः । प्रयोगे यत्र चैवं स्या- दाविभोगः स उच्यते” इति । यस्मिन् ऋणादानप्रयोगे स्वावराधित्वेन परिकल्पिता या वृद्धिस्तत्र सा वृद्धिरा- धिभोग इत्युच्यते इत्यर्थः । अपरार्कादौ “गृहात् स्तोमः शदः क्षेत्रादिति पाठः” । स्तोमो भाटक इति कल्प- तरौ । शदः शस्यादिफलम् । वृद्धेः परिमाणं दर्शयति मनुः “वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्द्धिनीम् । अशीतिभागं गृह्णीयात् मासाद्वार्धुषिकः शते” इति । निष्कशते प्रयुक्ते मासस्य सपादनिष्कपरिमितां वृद्धिं वार्धुषिको वृद्ध्यर्थं गृह्णीयादित्यर्थः । एतत्सबन्धकविष यम् । अतएव याज्ञवल्क्यः “अशीतिभागो वृद्धिः स्या- न्मासिमासि सवन्धके । वर्णक्रमाच्छत द्वित्रिचतुःपञ्चक- मन्यथेति” । सबन्धके पयुक्तस्य द्रव्यस्याशीतितमो भागो वृद्धिः पणशते प्रयुक्ते सपादः पणः प्रतिमास बर्द्धत इ- त्यर्थः । अन्यथा बन्धकराहित्ये वर्णक्रमात् ब्राह्मणादि- वर्णक्रमेण द्वित्रिचतुःपञ्चक शतन्धर्म्य भवति । द्वौ वा त्रयो वा चत्वारो वा इति द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर्द्दीयते इति द्वित्रिचतुःपञ्चकं शतम् । “तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते” पा० कन् । तथा चाय- मर्थः । बन्धकरहिते पणशतं प्रति प्रतिमासं ब्राह्मणात् पणदृय क्षत्रियात् पणत्रयं वैश्यात् पणचतुष्टयं शूद्रात् पणपञ्चक ग्राह्यम् । यत् तु मनुनोक्तम् । “द्विकं शतं वा गृह्णीयात् सतान्धर्ममनुस्मरन्निति” तद्व्यवस्थितवि- कल्पविषयम् । अतएव व्यासः “सबन्धे भाग आशीतः षाष्टभागः सलग्नके । निराधाने द्विकशतं मासलाभ उदाहृतः” इति । सबन्धे आधिसहिते । आशीतः अशीततमः । षाष्टः षष्टितमः । लग्नकः प्रतिभूः । नि- राधाने बन्धकरहिते । आधानग्रहणं प्रतिभुवोरप्युप- लक्षणम् । कल्पतरौ साष्टभाग इति पठित्वा सलग्नके अशीततमो भागः स्वकीयाष्टमसहितो मासवृद्धिरि- त्युक्तम् “द्विकन्त्रिकञ्चतुष्कञ्च पञ्चकञ्च शतं समम् । मासस्य वृद्धिं गृह्णोयाद् वर्णानामनुपूर्वशः” इति । द्विकं द्वौ वृद्धिर्दीयते यस्मिन्मूलधने तत् तथा । एवं त्रिका- द्यपि सममात्रं प्राप्य नाधिकम् । विष्णुरपि “अथोत्त- मर्णेऽधमर्णकादयथादत्तमर्थं गृह्णीयात् । द्विकन्त्रिकञ्च- तुष्कं पञ्चकं शत वर्णानुक्रमेण प्रतिभासमिति” । ध- मर्णविशेषेऽप्याह याज्ञवल्क्यः “कान्तारगास्तु दशकं सामुद्रा विंशकं शतमिति” । ऋण गृहीत्वा कान्तारं महावनन्तद्गच्छन्तोति कान्तारगा दुर्गस्थलगन्तारो व- स्त्रादिक्रयकारिणः पणशतस्य दशकं प्रतिमासं दश- पणान् दद्युरित्युत्तरवाक्यस्थस्यानुपङ्गः । समुद्रन्तरन्तीति सामुद्राः समुद्रगन्तारः प्रतिमासं विंशकं शतं दद्यु- रित्यर्थः । कारितायान्तु न नियम इत्याह स एव “दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिष्विति” । सर्वे त्र ह्मणादयोऽधमर्णाः सबन्धकेऽबन्धके वा सर्वासु जाति- षूत्तमर्णभूतासु स्वयमङ्गीकृतां वृद्धिं दद्युरित्यर्थः । द्रव्य- विशेषे वृद्धिविशेषषाह स एव “सन्ततिस्तु पशुस्त्राणां रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानाञ्चतुस्त्रि- द्विगुणा परेति” । पशुस्त्रोणां महिषीस्त्रोप्रभृतोनां वृद्ध्यर्थं प्रयुक्तानान्तदीया सन्ततिरेव वृद्धिः । रसस्य वृतादरष्टगुणा । वस्त्राणाञ्चतुर्गुणा घान्यानान्त्रगुणा । हिरण्यानां द्विगुणा परेति प्रत्येकं सम्बन्ध्यते । परा प- रमा । अतःपरमधिका वृद्धिर्नास्तीत्यर्थः । न च गवा- दीनाम् ऋणत्वेन दानन्न सम्भवतीति वाच्यम् । तत्पोष- णाद्यशक्तस्य तत्पुष्टिसन्तत्याद्यर्षिनो दानसम्भवात् । ग्रहणन्तु क्षीरवाहनसेवार्थिनः । वृहस्पतिरपि “हि- रण्ये द्विमुणा वृद्धिस्त्रिगुणा वस्त्रकुष्यके । धान्ये च- तुगुणा प्रोक्ता शदवाह्यलवेषु च । उक्ता पञ्चगुणा शाके वीजेक्षौ षड्गुणा स्मृता । लवणस्त्रेहमद्येषु वृद्धिरष्ट- गुणा मता । गुडे मघुनि चैवोक्ता प्रयुक्ते चिरकालिके” इति । कुप्यं त्रपुसीसकादिकम् । शदः क्षेत्रफलम् । तच्च गोवलीवर्दन्यायाद्धान्यव्यतिरिक्तं पुष्पमूलफलादिकम् । “वाह्योऽश्वादिः । लवो मेषोर्णाचमरीकेशादिः । अत्र चिरकालशब्देन प्रतिश्रुतायाः अशीतिभागायाः वृद्धे- र्यस्मिन् समये द्वैगुण्यादिप्रापकत्वंसम्भवति । ततोऽधिकः काला गृह्यते । यत् तु “धान्ये शदे लवे वाह्ये इत्यादि- मनुनोक्तं तत्प्रत्यर्पणसमये समृद्धाधमर्णविषयम् । षाड्गु- ण्यनिषेधपरमिति मदनरत्ने । यत् तु वसिष्ठवचनम् “द्विगुणं हिरण्यं त्रिगुणं धान्य धान्येनैव रसा व्याख्याताः । पुष्पमलफलानि च तुलाधृतमष्टगुणमिति” तत्त्रिगुणमेव धान्यादिक दातव्यमिति यत्र देशे स्थिति स्तद्विषयम् । दरिद्राधमर्णविषय वा एवमन्यत्रापि न्यू- नाधिकपरमवृद्धिप्रतिपादकानि वचनानि देशविशेषविष- यतया दरिद्रादिविषयतया वा व्यवस्थापनीयानि । व्यासोऽपि “वदन्त्यष्टगुणान् काले मद्यस्नेहरसासवानिति” स्नेहस्तैलादिः । रसः क्षीरादिः । कात्यायनोऽपि “तै- लानाञ्चैव सर्वेषां मद्यानां मधुसर्पिषाम् । वृद्धिरष्ट- गुणा ज्ञेया गुडस्य लवणस्य चेति” । विष्णुरपि “हिरण्यस्य द्विगुणा वृद्धिस्त्रिगुणा वस्त्रस्य धान्यस्य च- तुर्गुणा रसस्याष्टगुणा सन्ततिः स्त्रीपशूनामिति” । व्या- सोऽपि “शाकपाषाणवीजेक्षौ षड्गुणा परिकीर्त्तिते” ति । वसिष्ठोऽपि “वज्रशुक्तिप्रबालानां हेम्नश्च रजतस्य च । द्विगुणा त्विष्यते वृद्धिः कृतकालानुसारिणीति” । शुक्ति- शब्देनात्र मुक्ताफलं लक्ष्यते वज्रसाहचर्य्यात् । अतएव कात्यायनः “मणिमुक्ताप्रबालानां सुवर्णरजतस्य च । तिष्ठतो द्विगुणा वृद्धिः फलकैटाविकस्य चेति” । कैटङ्की- टोद्भवम् पट्टसूत्रादि । ओविक कम्बलादिकम् । वसि- ष्ठाऽपि “ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्य च । त्रिगुणा तिष्ठतो वृद्धिः कालाच्चिरकृतस्य तु” इति । रीतिरारकूटम् । देशभेदेन परां वृद्धिं दर्शयति ना- रदः “ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरः स्मृतः । देशाचारस्थितिस्त्वन्या यत्रर्णमवतिष्ठते । द्विगुणं त्रिगुण- ञ्चैव तथान्यणि श्चतुर्गुणम् । तथाष्टगुणमन्यास्मन् तत् तु देशेऽवतिष्ठते” इति । यत्र वृद्धिविशेषो न श्रूयते तत्र द्विगुणैव ग्राह्यत्याह विष्णुः “अनुक्तानां द्विगुणेति” अयञ्च द्वैगुण्यादिरूपो वृद्ध्युपरमः सकृत्प्रयोगे सकृदा हरणे वेदितव्यः तथा च मनुः “कुसीदवृद्धिर्द्वैगुण्य- न्नात्येति सकृदाहितेति” । उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं तस्य वृद्धि कुसीदवृद्धिर्द्वैगुण्यन्नत्येति नाति- क्रामति । यदि सकृदाहिता सकृत् प्रयुक्ता पुरुषान्तर- संक्रमणादिना प्रयोगान्तरकरणेन तस्मिन्नेव वा पुरुषे- रेकसेकाभ्यां प्रयोगान्तरकरणे द्वैगुण्यमतिक्रम्य पूर्वव- द्वर्द्धत एवेत्यर्थः । द्वैगुण्यग्रहणं त्रैगुण्यादीनामुप- लक्षणम् । सकृदाहृतेति पाठे यदि प्रतिमासं प्रतिबत्- सरं वा न गृह्यते किन्तु सकृद् गृह्यते तदा द्वैगुण्य- न्नातिक्रामतीत्यर्थः । गौतमोऽपि “चिरस्थाने द्वै- गुण्यं प्रयोगस्येति” । प्रयोगस्येत्येकवचननिर्देशात् प्रयो- गान्तरकरणे द्वैगुण्यातिक्रमः चिरस्थान इति निर्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो भवतीति सूचि- तम् । उक्तस्य वृद्ध्यु परमस्य क्वचिद् द्रव्यविशेषेऽपवा- दमाह वृहस्पतिः “तृणकाष्ठोष्टकासूत्रकिण्वचर्मा- स्थिवर्मणाम् । हेतिपुष्पफलानाञ्च वृद्धिस्तु न निव- र्त्तते” । किण्वं सुराद्रव्यापादानकारणभतो मलविशेषः चर्म शरादिनिवारकफलकः वर्म कवचम् । हेतिरायु- धम् । पुष्पफलयोर्वृद्धेरनिवृत्तिः प्रतिदानवेलायामत्य न्तसमर्थाधमर्णविषया देशविशेषविषया वा वेदितव्या । अन्यथा त्रिगुणवृद्धिप्रतिपादकव्यासवचनविरोधः स्यात् । विष्णुरपि “किण्वकार्पाससूत्रवर्मचर्मायुधेष्टकाङ्गाराणा- मक्षयेति” । कार्पासे तु षड्गुणवृद्धिविधायकव्यासवचन- विरोधः पूर्ववत्परिहरणीयः । वसिष्ठोऽपि “दन्तचर्मा- स्थिशृङ्गाणां मृण्मयानान्तथैव च । अक्षया वृद्धिरे- तेषां पुष्पमूलफलस्य च” इति । अक्षया मूलप्रतिपाद नाभावे शतगुणापि वर्द्धत एवेत्यर्थः । शिखावृद्ध्यादीना- मनुपरसमाह वृहस्पतिः “शिखावृद्धिङ्कायिकाञ्च भो- गलाभं तथैव च । धनी तावत् समादद्याद् यावन् मूलन्न शोचितम्” । न शोधितन्न प्रतिदत्तमृणिकेनेत्यर्थः क्वचिदनङ्गीकृतापि वृद्धिर्भवतीत्याह विष्णुः “यो गृ- होत्वा ऋणं पूर्णं श्वा दास्यामीति सामकम् । न दद्या- ल्लाभतः पश्चात्तदह्नाद् वृद्धिमाप्नुयात्” इति श्व इति प्रतिश्रुतस्य प्रतिदानकालावधेरुपलक्षणम् । सममेव साम- कम् अवृद्धिकमिति यावत् । योऽमुकस्मिन् दिने सममे- वाह त्वदीयं धनं पूर्णं समग्रं दास्यामोति प्रतिज्ञाय ऋणं गृहीत्वा पश्चाल्लोभाद्विलम्बं कुर्य्यात् सोऽवधिदिनमारभ्य वृद्धिं दद्यादित्यर्थः । कालावध्यनङ्गीकारेण गृहीतस्य धनस्य षण्मासादूर्ध्वं वृद्धिर्भवतीत्याह नारदः “न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित् । अना- कारितमप्यूर्द्ध्वं वत्सरार्द्धाद्विवर्द्धते” इति । अनाकारिता अनङ्गीकृता । प्रोतिदत्तानां प्रतियाचनप्रतिदानदिनानिर्दे- शशून्यानामिति शेषः । अनाकारितेत्यादेरयमर्थः । वृ- द्धिमकृत्वा गृहीतमपि षण्मासादूर्द्ध्व प्रीतिदत्त वृद्धिं प्राप्नोतीति । प्रतियाचितस्य प्रीतिदत्तस्याऽदाने वृद्धिवि- शेषमाह कात्यायनः “प्रीतिदत्तन्न वर्द्धेत यावन्न प्रति- याचितम् । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतम्” इति । पञ्चकं पञ्चाधिकम् प्रतियाचनदिनमारभ्य पणशतस्य पणपञ्चकं प्रतिमासं वर्द्धते इत्यर्थः । याचितकं गृ- हीत्वा अप्रतिदत्त्वैव देशान्तरगमने विशषमाह कात्या- यनः “यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्द्ध्व संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात्” इति । एतच्चाप्रतियाचितविषयम् । प्रतियाचिते याचितकम- दत्त्वा यदि देशान्तरङ्गच्छति तदा विशेषमाह स एव “कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् । ऊर्द्ध्वं मासत्रयाक्षस्य तद्धनं वृद्धिमाप्नुयात्” इति । कृतो द्धारं याचितकं गृहीत्वा याचितोऽप्यदत्त्वेत्यन्वयः । देशान्तरगमनाभावे तु याचितकालमारभ्य याचितकस्य वृद्धिविशेषसाह स एव “स्वदेशेऽपि स्थितो यस्तु न द- द्यात् याचितः क्वचित् । तं ततो कारितां वृद्धिमनि- च्छन्तञ्च दापयेत्” इति । ततः प्रतियाचनकालादा- रभ्येत्यर्थः । एतत्कञ्चिदवधिमपरिकल्प्य याचञाप्राप्ते ज्ञेयम् । अवधिं स्वीकृत्य तदतिक्रमे त्वतिक्रमदिनमारभ्य तद्धनस्य वृद्धिर्ज्ञेया । “तदह्नाद् वृद्धिमाप्नुयादिति” न्या- यसाम्यात् । गृहीतपण्यो मूल्यमदत्त्वा देशान्तरगमने वृद्धिविशेषमाह स एव “पण्यं गृहीत्वा यो मूल्यमदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिमाप्नुयात्” इति । एतच्चापतियाचितविषयम् । प्रतियाचने त्वेतस्य निक्षिप्तवृद्धिशेषयाश्च तद्दिनमारभ्य प्रतिमासं शते पञ्चकं वर्द्धत इत्यप्याह स एव “निःक्षिप्तं वृद्धिशेषञ्च क्रयवि- क्रय एव च । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतम्” इति । नन्वकृतायां वृद्धौ परिमाणविशेषस्यानुक्तेः किं परिमाणं ग्राह्यमिति चेत् । अशीतिभागो वृद्धिः स्या दित्यादि याज्ञवल्क्याद्युक्तपरिमाणं ग्राह्यमिति ब्रूमः । अतएव विष्णुः “वृद्धिं दद्युर्वत्सरातिक्रमे यथामिहिता- मिति” । वत्सरातिक्रम इति यत्र यदतिक्रमे वृद्धिरुक्ता तस्योपलक्षणम् । यथाभिहितां धर्मशास्त्र इति शेषः । धर्मशास्त्रे यथोक्तां तथाविधामित्यर्थः । ननु यथाभि- हितामित्यस्यार्थिप्रत्यर्थिनोरन्यतरेण मध्यस्थेन वामि- हितां दद्यादित्यर्थः कस्मान्न भवति अतिप्रसङ्गा- पत्तेः । “कृतानुसारादधिका व्यतिरिक्ता न सिद्ध्यति । कुसीदपथमाहुस्तं पञ्चकं शतमर्हतीति मनूक्तेश्च । अ- स्यार्थः । शास्त्रविधिनियमितशास्त्रकृतवृद्ध्यनुसारी यो वृद्धिग्रहणं लोकिकानां समाचारः तस्मादधिका वृद्धि- रुत्तमर्णादेरकृतवृद्धौ न सिद्ध्यति यतः सा व्यतिरिक्ता- धर्मशास्त्रवाह्या । अतएव कुसीदपथमाहुस्तन्न धर्मपथ- मिति । पञ्चकं शतमहतोति प्रतियाचितविषयमिति स्मृतिचन्द्रिकायाम् । पूर्वोक्ताच्छास्त्रानुसारादधिकाऽध- सर्णेनाकृता वृद्धिर्न सिध्यति । यतः कुसीदपथमाहुस्तम् । यदा तु व्यवहारावष्टम्भादुत्तमर्णोऽधिकमधमर्णेनाका- रितं लाभमिच्छति तदा ब्राह्मणे पञ्चकं शतं ग्रहीतु म- र्हति न ततोऽधिकसधमर्णाकारितमित्यर्थमाह रत्नाकरः अकृतवृद्धेरपवादमाह नारदः “पण्यमूल्यं भृतिन्यासो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्द्धन्ते नाविवक्षिताः” इति । पण्यस्य वस्त्रादेर्मूल्यम् । भृति- र्वेतनम् । न्यासो निक्षेपः । वृथादानं वेश्यादिभ्यः प्रतिश्रुतम् । आक्षिकपणो द्यूतद्रव्यम् । अविवक्षिताः । अत्र पण्यमूल्यस्य वृद्धेरभावोक्तिः प्रवासप्रतियाचनयोर- भावे वेदितव्या अन्यथा पूर्वोक्तकात्यायनवचनेन विरोधः स्यात् । न्यासस्य च वृद्ध्यभाववचनं प्रतियाच- नाभावे “न वृद्धिः स्त्रीधने लाभे निःक्षिप्ते च यथा- स्थिते । सन्दिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयं कृतम्” इति संवर्त्तवाक्ये यथास्थितमिति विशेषणो- पादानाद् व्यक्त्यन्यथाकरणाभावे च ज्ञातव्यम् । तथा च निक्षिप्तं वृद्धिशेषञ्चेत्यादि पूर्वोक्तकात्यायनवचन- विरोधो न । कात्यायनोऽपि “वर्मशस्यासवद्यूते पण्य- मूले च सर्वदा । स्त्रीशुल्केषु न वृद्धिः स्यात् प्रा- तिभाव्यागतेषु च” इति । सर्वदेत्यनेन प्रतियाचनादेः पर- स्तादपि वृद्धिरकृता नास्तीत्युक्तम् । यद्यपि सर्वदेति सर्वशेषत्वात् पण्यमूल्येऽपि प्रतियाचनादेः परस्तादकृत- वृद्ध्युपरमः प्रतिभाति । तथापि पूर्वोक्तकात्यायनवचन- विरोधात् न तच्छेषता सर्वदेत्यस्य । एवञ्च पूर्वोक्त एव परिहारः । एवं वर्सणोऽपि वृद्ध्यभावोक्तिः प्रति- याचनाभावे तथा च न तच्छेषतापि । एवञ्च न पूर्वो- क्ताक्षयवृद्धिप्रतिपादकवसिष्ठादिवचमविरोधः । अन्यत्रापि वृद्ध्यभावं व्यास आह “प्रातिभाव्यम्भुक्तरन्धमगृही- तञ्च दित्सतः । न वर्धते प्रयत्नस्य दमः शुल्कं प्रतिश्रु तम्” इति । भुक्तबन्धमित्यनेन स्थापितस्य गुप्ताधेर्वस्त्रा- लङ्कारादेरुपभोगे वृद्धिर्नभवतीत्युक्तम् । अतएव गौ- तमः “भुक्ताधिर्न वर्द्धते वस्त्रालङ्कारादिरिति” अ- गृहीतञ्च दित्सतः प्रतिदातुमिच्छोरधमर्णादुत्तम- र्णोवृद्धिलोभादिवशान्न यदा गृह्णाति तदा तस्य कृतापि वृद्धिस्तद्दिनादारभ्य न देयेत्यर्थः । तथा च याज्ञवल्क्यः “दीयमानं न गृह्णाति प्रयुक्तं यत् स्वकन्धनम् । मध्यस्थस्थापितं तत्स्याद् वर्द्धते न ततःपरम्” इति । मध्यस्थस्थापितमिति विशेषणेनाधमर्णो यदि स्वनिकटे स्थापयति तदा भवत्येव वृद्धिरिति” । ९ शैलेयगन्धद्रव्ये पु० । १० धने च राजनि० ।
शब्दकल्पद्रुमः
वृद्धिः || स्त्री (वृध + क्तिन् ।)
अष्टवर्गान्तर्गतौ- षधविशेषः । तत्पर्य्यायः । योग्या २ ऋद्धिः ३ सिद्धिः ४ लक्ष्मीः ५ । इत्यमरः ॥ पुष्टदा ६ वृद्धि- दात्री ७ मङ्गल्या ८ श्रीः ९ सम्पत् १० आशीः ११ जनेष्टा १२ भूतिः १३ मुत् १४ सुखम् १५ जीवभद्रा १६ । अस्या गुणाः । “ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला । रुचिमेधाकरी श्लेष्मकुष्ठक्रिमिहरा परा ॥ प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् । तत्र यद्दातुमिष्टिः स्याद्द्वयमप्यत्र योजयेत् ॥” इति राजनिर्घण्टः ॥ * ॥
ऋद्धिवृद्ध्योरुत्पत्तिलक्षणनामगुणाः । “ऋद्धिर्व्वृद्धिश्च कन्दौ द्बौ भवतः कोषयामले । श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे । तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा ॥ वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः । ऋद्धिर्योग्या सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः । प्राणैश्वर्य्यकरी मूर्च्छारक्तपित्तविनाशिनी ॥ वृद्धिर्गर्भप्रदा शीता वृं हणी मधुरा स्मृता । वृष्या पित्तास्रशमनी क्षतकासक्षयापहा ॥ राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्ल्लभः । तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् ॥” मुख्यसदृशः प्रतिनिधिः ॥ * ॥
एतस्य प्रतिनिधि- माह । “मेदा जीवककाकोली ऋद्धिद्वन्द्वेऽपि चासति । वरीविदार्य्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत् ॥” मेदा महामेदास्थाने शतावरीमूलं जीवकर्षभक- स्थाने विदारीमूलं काकलीक्षीरकाकोलीस्थाने- ऽश्वगन्धामूलं ऋद्धिवृद्धिस्थाने वाराहीकन्दं गुणैस्तत्तुल्यं क्षिपेत् । इति भावप्रकाशः ॥ * ॥
नीतिवेदिनां क्षयादित्रिवर्गान्तर्गतवर्गविशेषः । इत्यमरः ॥ नीतिवेदिनां नीनिशास्त्रज्ञानां क्षयादिभिस्त्रिवर्गः । अन्येषान्तु धर्म्मकामार्थः पूर्ब्बमुक्तः । अष्टवर्गस्यापचयः क्षयः । तस्यैवोप- चयो वृद्धिः । तस्य नोपचयो नाप्यपचयः स्थानम् । अष्टवर्गो यथा, — कृषिर्बणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् । कन्याकरबलादानं सैन्यानाञ्च निवेशनम् ॥ अष्टवर्गः स्मृतो राज्ञामिति भरतः ॥ * ॥
वर्द्धनम् । तत्पर्य्यायः । स्फातिः २ । इत्यमरः ॥ (यथा, मनुः । १२ । १२४ । “एष सर्व्वाणि भूतानि पञ्चभिर्व्याप्य मूर्त्तिभिः । जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥”)
विष्कम्भादिसप्तविंशतियोगान्तर्गतैकादशयोगः । तत्र जातफलं यथा, —
“प्रसूतिकाले यदि वृद्धियोगो नरः सुभोगो विनयान्वितश्च । धनप्रयोगग्रहणेषु दक्षो विचक्षणः स्यात् क्रयविक्रयाभ्याम् ॥” इति कोष्ठीप्रदीपः ॥ * ॥
कलान्तरम् । सुद् इति भाषा । अभ्युदयः । समृद्धिः । इति मेदिनी ॥ (यथा, शिशुपाल- वधे । १५ । १ । “अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥”)
वृद्धिग्रहणनियमो यथा, —
“अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥” मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यदा- धीयते आधिरिति यावत् । बन्धकेन सह वर्त्तत इति सबन्धकः प्रयोगस्तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्याशीतितमो भागो वृद्धिर्धर्म्या भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्बित्रिचतुःपञ्चकं शतं धर्म्म्यं भवति । ब्राह्मणेऽधमर्णे द्विकं शतम् । क्षत्त्रिये त्रिकम् । वैश्ये चतुष्कम् । शूद्रे पञ्चकम् । मासि मासीत्येव । द्वौ वा त्रयो वा चत्वारो वा पञ्च वा इति द्वित्रिचतुःपञ्चाः । द्बित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर्दीयत इति द्वित्रिचतुःपञ्चकं शतम् । तदस्मिन् वृद्ध्या यल्लाभशुल्कोपदा दीयते इति कन् । इयं वृद्धिर्मासि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाना कायिका भवति । तथा च नारदेन । “कायिका कालिका चैव कारिता च तथा परा । चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्व्विधा ॥” इत्युक्त्रोक्तम् ॥ “कायाविरोधिनी शश्वत् पणपादादि कायिका । प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥ वृद्धिः सा कारिता नाम यर्णिकेण स्वयं कृता । वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृतेति ॥” ग्रहीतृविशेषणेन वृद्धेः प्रकारान्तरमाह । कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः ये वृद्ध्या धनं गृहीत्वा अधिकलाभार्थं अति- गहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च समुद्रगास्ते विंशकं शतं मासि मासीत्येव । एतदुक्तं भवति कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं शतं उत्तमर्ण आदद्यात् । मूलविनाशस्यापि शङ्कितत्वात् इति ॥ * ॥
इदानीं कारितां वृद्धि- माह । “दद्युर्व्वा स्वकृतां वृद्धिं सर्व्वे सर्व्वासु जातिषु ॥” सर्व्वे ब्राह्मणादयोऽधमर्णा अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतां वृद्धिं सर्व्वासु जातिषु दद्युः । क्वचिदकृतापि वृद्धिर्भवति यथाह नारदः । “न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित् । अनाकारितमप्यूर्द्ध्वं वत्सरार्द्धाद्विवर्द्धते ॥” इति ॥ यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्यायनेनोक्तम् । “यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्द्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥” इति ॥ यश्च याचितकमादाय याचितोऽप्यदत्त्वा देशा- न्तरं याति तं प्रति तेनैवोक्तम् । “कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् । ऊर्द्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयाद् ॥” इति ॥ यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याचनकालादारभ्य वृद्धिं दापये- द्राजा । यथाह । “स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तं ततो कारितां वृद्धिमनिच्छन्तञ्च दापयेत् ॥” इति ॥ अनाकारितवृद्धेरपवादो नारदेनोक्तः । “पण्यमूलं भृतिर्न्यासो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्द्धन्ते नाविवक्षिताः ॥ अविवक्षिता अनाकारिता इति ॥ * ॥
अधुना द्रव्यविशेषे वृद्धिविशेषमाह । सन्ततिस्तु पशु- स्त्रीणाम् । पशूनां स्त्रीणां सन्ततिरेव वृद्धिः । पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्तति- कामस्य प्रयोगः सम्भवति । ग्रहणञ्च क्षीर- परिचर्य्यार्थिनः । अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धिरित्यपेक्षित आह । रसस्याष्टगुणा परा । “वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥” रसस्य तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिर- कालावस्थितस्य स्वकृतया वृद्ध्या वर्द्धमान- स्याष्टगुणा वृद्धिः परा नातःपरं वर्द्धते । तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणाः त्रिगुणा द्विगुणा च वृद्धिः परा । वशिष्ठेन तु रसस्य त्रैगुण्यमुक्तम् । द्विगुणं हिरण्यं त्रिगुणं धान्यं धान्येनैव रसा व्याख्याताः पुष्पमूल- फलानि च । तुला घृतं त्रितयमष्टगुणमिति । मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्च- गुणत्वमुक्तम् । “धान्ये शदे लवे बाह्ये नातिक्रा- मति पञ्चतामिति ।” शदः क्षेत्रफलं पुष्पमूल- फलादि । लवो मेषोर्णाचमरीकेशादि । बाह्यो वलीवर्दतुरगादि । धान्यशदलवबाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्य- तावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोमान्तर- करणे तस्मिन्नेव वा पुरुषे अनैकशः प्रयोगा- न्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ब्ब- वद्वर्द्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रति- मासं प्रतिवत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्बैगुण्यसम्भवात् । पूर्ब्बाहृतवृद्ध्या सह द्वैगुण्य- मतिक्रम्य वर्द्धत एव । यथाह मनुः । कुषीद- वृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । सकृदाहि- तेत्यपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुषीदं तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति सकृदाहृतेति पाठे शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिवत्सरं वाधमर्णादा- हृता द्वैगुण्यं नात्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम् । चिरस्थाने द्वैगुण्यं प्रयोग- स्येति प्रयोगस्येत्येकवचननिर्देशात् प्रगोगान्तर- करणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्द्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्याति- क्रमो दर्शितः । इति मिताक्षरा ॥ कुरण्ड- रोगः । हर्षः । इति हेमचन्द्रः ॥ समूहः । इति शब्दचन्द्रिका ॥ शैलेयम् । धनम् । इति राजनिर्घण्टः ॥ * ॥