शब्दकल्पद्रुमः
वृद्धिदः || पुं, (वृद्धिं ददातीति । दा + कः ।) जीवकः । शूकरकन्दः । इति राजनिर्घण्टः ॥ वृद्धिदातरि, त्रि ॥ (यथा, बृहत्संहितायाम् । ५३ । ३७ । “प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु ॥”)