संस्कृत-शब्दकोशः

वृद्धिद वृद्धोक्ष

वृद्धिश्राद्ध

वाचस्पत्यम्

वृद्धिश्राद्ध ||‍ वृद्ध्यै अभ्युदयाय श्राद्धम् । पुत्रादीनां संस्का- राङ्गे पार्वणविधिके नान्दीश्राद्धे नान्दीश्राद्धशब्दे दृश्यम्


शब्दकल्पद्रुमः

वृद्धिश्राद्धं || क्ली (वृद्धये यत् श्राद्धम् ।)
वृद्धिनिमि- त्तकश्राद्धम् । तत्तु अभ्युदयनिमित्तं पित्राद्युद्देशेन श्रद्धया अन्नादेर्द्दानम् । तत् कर्म्मविशेषात् पूर्ब्बं कर्त्तव्यं यथा । निर्णयामृते मत्स्यपुराणम् । “अन्नप्राशे च सीमन्ते पुत्त्रोत्पत्तिनिमित्तके । पुंसवने निषेके च नववेश्मप्रवेशने ॥ देववृक्षजलादीनां प्रतिष्ठायां विशेषतः । तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम् ॥” हलायुधधृतकूर्म्मपुराणम् । “तीर्थयात्रासमारम्भे तीर्थात् प्रत्यागमेऽपि च । वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम् ॥” इति श्राद्धतत्त्वम् ॥ आभ्युदयिकश्राद्धम् । नान्दीमुखश्राद्धम् । यथा, —
“वृद्धिश्राद्धं प्रवक्ष्यामि पूर्ब्बवत्तद्विशेषकम् ॥ जातपुत्त्रमुखदर्शनादौ वृद्धिश्राद्धम् । पूर्व्वाभि- मुखेषु दक्षिणोपवीतिषु मधुयववदरकुशै- र्देवतीर्थेन नमस्कारान्तेन दक्षिणोपचारेण कर्त्तव्यम् । दक्षिणजानु गृहीत्वा ॐ अद्या- स्मदीयामुकवृद्धौ अमुकसगोत्राणामस्मत्पितृ- पितामहप्रपितामह-मातामहप्रमातामहवृद्ध- प्रमातामहानां अमुकशर्म्मणां सपत्नीकानां नान्दीमुखानां श्राद्धे कर्त्तव्ये वसुसत्यसंज्ञकानां विश्वेषां देवानां श्राद्धं सिद्धान्नेन युष्मासु मया कर्त्तव्यमिति देवब्राह्मणामन्त्रणम् । ॐ करिष्य- सीति तेनोक्ते इत्थमेव मातृपितामहीप्रपिता- महीनां देवब्राह्मणामन्त्रणम् । तत ॐ अद्य अमुकसगोत्राया मत्प्रपितामह्या अमुकीदेव्या नान्दीमुख्याः श्राद्धं सिद्धान्नेन युष्मासु मया कर्त्तव्यमिति प्रपितामहीब्राह्मणामन्त्रणम् । करिष्यसीति तेनोक्ते इत्थमेव मातामह्यादि- ब्राह्मणामन्त्रणम् । देवपितृसर्व्वदेवब्राह्मणश्राद्ध- करणानुज्ञापनम् । आसने ॐ विश्वेदेवास आगत शृणुताम इमं हवं एवं वर्हिर्निषीदत । ॐ विश्वेदेवाः शृणुतेमं हवं ये मेऽन्तरीक्षे य उपद्यविष्ट ये अग्निजिह्वा उत वा यजत्रा आ सद्यास्मिन् वर्हिषि मादयद्धम् । ॐ आगच्छन्तु इति विश्वेदेवावाहनं गन्धादिदानं अच्छि- द्रावधारणवाचनम् । ततः प्रपितामहीप्रभृती- नामनुज्ञापनम् । आसनम् आवाहनं गन्धादि- दानञ्च । अच्छिद्रावधारणवाचनम् । इत्थं पितामह्या मातुः । ततः प्रपितामहादीनामनु- ज्ञापनमासनमावाहनं गन्धादिदानम् । एवं वृद्धप्रपितामहादीनां अनुज्ञापनादिकरणम् । ॐ वसुसत्यसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं सवदरं सदधि प्रति- सिद्धवर्ज्जितं नमः । इति अन्नकल्पनम् ॥ ॐ अमुकगोत्रे मत्पितामहि अमुकि देवि नान्दीमुखि एतदन्नं सवदरं सदधि नमः । एवं मातामहप्रमातामहेभ्यः ।” इति गारुडे २२३ अध्यायः ॥ अन्यच्च । “तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते । उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले ॥ मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् । ततो मतामहा राजन् विश्वेदेवास्तथैव च ॥ प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः । प्राङ्मुखो निनयेत् पिण्डान् पूर्ब्बया चतुरो युतान् ॥ सम्पन्नमित्यभ्युदये दद्यादर्घ्यं द्बयोर्द्वयोः । युग्मा द्विजातयः पूज्याः वस्त्रकार्त्तस्वरादिना ॥ तिलार्थन्तु यवैः कार्य्या नान्दीशब्दानुपूर्ब्बकम् । मङ्गलानि च सर्व्वाणि वाचयेत् द्बिजपुङ्गवान् ॥ एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धञ्च सर्व्वदा । नमस्कारेण मन्त्रेण कुर्य्यादामान्नवान् बुधः ॥ दानप्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः । दानेन सर्व्वकामाप्तिरस्य संजायते यतः ॥” इति मात्स्ये साधारणाभ्युदयकीर्त्तनो नाम १७ अध्यायः ॥ विस्तारस्तु श्राद्धतत्त्वे श्राद्ध- विवेके च द्रष्टव्यः ॥



Correction: