संस्कृत-शब्दकोशः

वृन्दावन वृन्दावनेश्वरी

वृन्दावनेश्वर

शब्दकल्पद्रुमः

वृन्दावनेश्वरः || पुं, (वृन्दावनस्य ईश्वरः ।)
श्रीकृष्णः । यथा, —
“यन्नखेन्दुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः । गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥” अपि च । “पुरुषः प्रकृतिश्चाद्यौ राधावृन्दावनेश्वरौ । प्रकृतिर्विकृतिः सर्व्वं विना वृन्दावनेश्वरम् ॥” इति पाद्मे पातालखण्डे ९ अध्यायः ॥ * ॥
अन्यच्च । “यदा नित्यः स्वयं कृष्णः सच्चिदानन्दविग्रहः ॥ षण्णां गुणानां शीली तु भगवच्छब्दसंज्ञितः ॥ नित्यधामा गुणातीतः साक्षाद्वृन्दावनेश्वरः । असौ प्रकटलीलायां वासुदेवोऽभवत् प्रभुः ॥ गोपीनां कामपूर्णाय नित्यानां रमणाय च । गोपालानां विनोदाय स्वयं नन्दसुतोऽभवत् ॥” इति पाद्मोत्तरखण्डे ६७ अध्यायः ॥



Correction: