वाचस्पत्यम्
वृषण || पु० वृष—क्यु । १ अण्डकोषे अमरः । २ वीर्य्यान्विते त्रि० । “स्थूललिङ्गो दरिद्रः स्यात् दुःख्येकवृषणोभवेत् । विषमे स्त्रीचपलो वै नृपः स्यात् वृषणे समे प्रलम्बवृषणोऽ- ल्पायुर्निर्द्रव्यो मणिभिर्भवेत्” गरुडपु० ६३ अ० ।
शब्दकल्पद्रुमः
वृषणः || पुं, अण्डकोषः । इत्यमरः ॥ तस्य लक्षणं यथा, —
“स्थूललिङ्गो दरिद्रः स्याद्दुःख्येकवृषणी भवेत् । विषमे स्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे । प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यो मणिभिर्भवेत् ॥” अपि च । “जलान्त एकवृषणो वृषणाभ्यां चलः स्त्रियाम् । समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥” इति गारुडे ६३ । ६५ अध्यायौ ॥