शब्दकल्पद्रुमः
वृषणकच्छूः || स्त्री (वृषणस्य कच्छूः ।)
क्षुद्ररोग- विशेषः । तल्लक्षणं यथा, —
“स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः । प्रक्लिद्यते तदा स्वेदात् कण्डूं जनयते तदा ॥ ततः कण्डूयनात् क्षिप्रं स्फोटं स्रावश्च जायते । प्राहुर्व्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ॥ उत्सादनं उद्वर्त्तनम् । मलः मैल् इति लोके । प्रक्लिद्यते आर्द्रो भवति ॥ * ॥
तच्चिकित्सा यथा, —
“सर्ज्जाब्दकुष्ठसैन्धवसितसिद्धार्थैः प्रकल्पितो योगः । उद्वर्त्तनेन नियतं शमयति वृषणस्य कण्डूतिम् ॥ भिषग्वृषणकच्छून्तु चिकित्सेत् पामरोगवत् । अहिपूतननिर्द्दिष्टक्रिययापि च तां हरेत् ॥” इति भावप्रकाशः ॥