संस्कृत-शब्दकोशः

वृषणकच्छू वृषण्वत्

वृषणश्व

वाचस्पत्यम्

वृषणश्व ||‍ पु० कर्म० शक० । सामर्थ्ययुक्ते इन्द्राश्वे त्रिका० ।


शब्दकल्पद्रुमः

वृषणश्वः || पुं, इन्द्रस्य घोटकः । इति त्रिकाण्डशेषः ॥ (एतन्नामकनृपविशेषः । यथा, ऋग्वेदे । १ । ५१ । १३ । “मेनाभवो वृषणश्वस्य सुक्रतो ॥” “वृषणश्वस्य एतदाख्यस्य राज्ञः मेनाभवो मेनानाम कन्या भूः ।” इति तद्भाष्ये सायणः ॥ * ॥
सेचनसमर्थाश्वयुक्ते, त्रि । यथा, ऋग्वेदे । ८ । २० । १० । “वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ॥” “वृषणश्वेन वृषभिः सेचनसमर्थैरश्वैरुपेतेन ।” इति तद्भाष्ये सायणः ॥)



Correction: