संस्कृत-शब्दकोशः

वृषय वृषलात्मज

वृषल

वाचस्पत्यम्

वृषल ||‍ पु० वृष—कलच् । १ शूद्रे २ गृञ्जने ३ घोटके ४ चन्द्रगुप्ते नृपे च मेदि० । ५ अधार्मिके जटा० ।


शब्दकल्पद्रुमः

वृषलः || पुं, गृञ्जनः । शूद्रः । (यथा, मनौ । ४ । १४० । “नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥” अस्य नामनिरुक्तिर्यथा, तत्रैव । ८ । १६ । “वृषो हि भगवान् धर्म्मस्तस्य यः कुरुते ह्यलम् । वृषलं तं विदुर्द्देवास्तस्माद्धर्म्मं न लोपयेत् ॥”)
चन्द्रगुप्तराजः । वाजी । इति मेदिनी ॥ अधार्म्मिकः । इति जटाधरः ॥



Correction: