संस्कृत-शब्दकोशः

वृषलात्मज वृषलीपति

वृषली

वाचस्पत्यम्

वृषली ||‍ स्त्री “पितुर्गेहे च नारी रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता” इत्यु- क्तायां पितृगृंहे दृष्टरजस्कायामनूढायां १ कन्यायाम् । वृषल + भार्य्यायां जातौ वा ङीष् । २ वृषलजातिस्त्रियां ३ तद्भार्य्यायाञ्च । “ब्रह्महा वृषलीपतिः” इति “वृषली- फेनपीतस्य” इति च मनुः ।


शब्दकल्पद्रुमः

वृषली || स्त्री पितृगृहे अविवाहिता रजस्वला कन्या । यथा । अत्रिकाश्यपौ । “पितुर्गेहे च या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता ॥” इत्युद्वाहतत्त्वम् ॥ स्वपतिं परित्यज्य या परपतिगामिनी । यथा, —
“स्ववृषं या परित्यज्य परवृषे वृषायते । वृषली सा हि विज्ञेया न शूद्री वृषली भवेत् ॥” इति काशीखण्डः ॥ (वृषलस्य भार्य्या । ङीप् ।)
शूद्री च ॥ (यथा, महानिर्व्वाणतन्त्रे । १ । ४७ । “शूद्रान्नभोजिनः क्रूरा वृषलीरतिकामुकाः ॥”)



Correction: