वाचस्पत्यम्
वृषोत्सर्ग || पु० उत् + सृज—घञ् ६ त० । मृताद्युद्देशेन तत्- पुत्रादिभिः क्रियमाणे विधानेन वृषस्य त्यागे तद्विधिर्यथा शु० त० “कालविवेके अग्निपु० “एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । प्रेतलोकं परित्यज्य- स्वर्कलोकं स गच्छति । आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि च वत्सरे । वृषोत्सर्गश्च कर्त्तव्यो यावन्न स्यात् सपिण्डता । सपिण्डीकरणादूर्द्ध्वं कालोऽन्यः शास्त्रचोदितः” । यस्य प्रेतस्येति सामान्यश्रुतेः पितृभिन्नस्यापि वृषोत्सर्गः प्रतीयते । त्रिपक्षोऽत्र चान्द्रः श्राद्धे तथादर्शनात् श्राद्धप्रदीपे जातु० “ऊर्द्ध्वं त्रिपक्षात् यत् श्राद्धं मृता- हन्येव तद्भवेत्” । अत्र पूर्वमृततिथिमादाय त्रिपक्षगणना मासिकानां मृततिथौ विधानात् त्रिपक्षश्राद्धमपि मृताहे कार्य्यम् । अत्र वत्सर इत्युपादानात् विष्णुधर्म्मोत्तरीये मृताह इति पदं पूर्णसंवत्सरमृततिथिपरम् । तद्यथा वृषोत्सर्गमधिकृत्य विष्णुः “विषुवद्वितये चैव मृताहे बान्धवस्य च । मृताही यस्य यस्मिन् वा तस्मिन्नहनि कारयेत्” यस्य बान्धवस्य पित्रादेर्यस्मिन्नहनि मृताहः तत्तिथौ कर्त्तव्यमित्यर्थः । (तत्तिथिश्च प्रथमादिकला ह्रासवृद्ध्यन्यतरक्रियया सजातीयतिथिस्तेन त्रिपक्षश्राद्धे पक्षान्तरत्वेऽपि न क्षतिः) । छन्दोगप० “वृषोत्सर्गविधिं व्याख्यास्यामः “कार्तिक्यां पौर्णमास्यां रेवत्याश्वयुज्यां दशाहे गते संवत्सरेऽतीते वा” । अत्र मृततिथिमादाय वत्सरगणना दशाहवदित्यविरोधः । एकादशाह इति आद्यश्राद्ध इति च अशौचान्तद्वितीयदिनपरम् । अशो- चान्तात् द्वितीयेऽह्नीत्युपक्रमे “वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा” मत्स्यपु० एकवाक्यत्वात् । प्रेतवृषोत्सर्गे वृद्धिश्राद्धं न कार्य्यम् “नार्वाक् संवत्सरात् वृद्धिर्वृषोत्सर्गे विधीयते । सपिण्डीकरणादूर्द्ध्वं वृद्धिश्राद्धं विधीयते” उशनोवचनात् । वृषलक्षणमाह कर्मप्र० कात्या० “अव्यङ्गो जीववत्सायाः पयस्विन्याः सुतो बली । एकवर्णो द्वि- वर्णो वा यो वा स्यादष्टकासुतः । यूथादुच्चतरो यस्तु समो वा नीच एव वा । सप्तावरान् सप्त परानुत्सृष्टस्तारयेद्- वृषः” । अष्टकासुतः अष्टकातिथिषु जातः “वृष एव स मोक्तव्यो न सन्धार्य्यो गृहे वसन्” मत्स्यपु० । वत्सतरो- र्विशेषति कात्या० “अग्रतो लोहिता पत्नी पार्श्वाभ्यां नीलपाण्डरे । पृष्ठतश्च भवेत् कृष्णा वृषभस्य च मोक्षणे । चतस्रो वत्सिका भद्रा द्वे वा सम्भवतोऽपि वा । वत्सं सर्वाङ्गसंपूर्णं कन्या सा वत्सिका भवेत्” देवीपु० उ० । अत्र सम्भवत इत्युक्त्या एकयापि वत्सतर्य्या वृषोत्सर्गः सिध्यति । “अङ्कित्वोत्सृज्यते पूर्वं गाश्चालङ्कृत्य सर्वतः । तप्तेन वामतश्चक्रं याम्ये शूलं समालिखेत् । धातुना हेमतारेण आयसेनाथवाऽङ्कयेत्” देवीपु० । प्रेतोद्देश्यकवृषोत्सर्गस्तु मलमासादावपि कर्त्तव्यः “अशौचान्तोऽपि कर्त्तव्य वृषो- त्सर्गादिकं बुधैः । मलिम्लुचादिदोषस्तु न ग्राह्यस्तत्र क- श्चन” शु० त० धृतवाक्यात् । कालमाधवीये कालादर्शे च मलमासे कर्त्तव्यतानिषेधमुपक्रम्य प्रवृत्तं यथा “आश्रम स्वीकृतिः काम्यवृषोत्सर्गश्च निष्क्रयः” । अत्र काम्येति विशेषणात् नित्यस्य न निषेधः “अशौचान्तात् द्वितीये- ऽह्नि यस्य नोत्सृज्यते वृषः । न तस्य निष्कृतिर्दृष्टा दत्तैः श्राद्धशतरपि” इत्युक्तेस्तस्य नित्यत्वम् चन्दनधेनुशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वृषोत्सर्गः || पुं, (वृषस्योत्सर्गः ।)
अशौचान्त- द्वितीयदिनादिकर्त्तव्यत्रिशूलचक्राङ्कितवत्सतरी- चतुष्टययुक्तवृषत्यागः । वृषाभावे तत्प्रतिनिधि- र्यथा, —
“एकादशेऽह्नि सम्प्राप्ते वृषाभावो भवेद्यदि । दर्भैः पिष्टैस्तु संपाद्य तं वृषं मोचयेद्बुधः ॥ वृषोत्सर्ज्जनवेलायां वृषाभावः कथञ्चन । मृत्तिकाभिस्तु दर्भैर्व्वा वृषं कृत्वा विमोचयेत् ॥” इति गारुडे प्रेतकल्पे ६ अध्यायः ॥ तस्य विधिर्यथा । कालविवेकेऽप्यग्निपुराणम् । “एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । प्रेतलोकं परित्यज्य स्वर्गलोकं स गच्छति ॥ आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि च वत्सरे । वृषोत्सर्गश्च कर्त्तव्यो यावन्न स्यात् सपिण्डता । सपिण्डीकरणादूर्द्ध्वं कालोऽन्यः शास्त्रचोदितः ॥” यस्य प्रेतस्येति सामान्यतः श्रुतेः पितृभिन्न- स्यापि वृषोत्सर्गः प्रतीयते ॥ * ॥
अथ वृषोत्- सर्गं व्याख्यास्यामः । कार्त्तिक्यां पौर्णमास्यां रेवत्यामाश्वयुज्यां दशाहे गते संवत्सरेऽतीते वेति । अत्र मृततिथिमादाय संवत्सरगणना दशाहवदित्यविरोधः । एकादशाह इति आद्य- श्राद्ध इति चाशौचान्ताद्द्वितीयदिनपरम् । “अशौचान्ताद्द्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम् । काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्वितम् ॥ संपूज्य द्बिजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा ॥” इति मत्स्यपुराणेनैकवाक्यत्वात् ॥ प्रेतवृषोत्सर्गे वृद्धिश्राद्धं न कर्त्तव्यम् । “नार्व्वाक् संवत्सराद्वृद्धिर्वृषोत्सर्गे विधीयते । सपिण्डीकरणादूर्द्ध्वं वृद्धिश्राद्धं विधीयते ॥” इत्युशनसो वचनात् ॥ * ॥
वृषलक्षणमाह कात्यायनः । “अव्यङ्गो जीववत्सायाः पयस्विन्याः सुतो बली । एकवर्णो द्बिवर्णो वा यो वा स्यादष्टकासुतः ॥ यूथादुच्चतरो यस्तु समो वा नीच एव वा । सप्तावरान् सप्त परानुत्सृष्टस्तारयेद्वृषः ॥” अष्टकासुतः अष्टकासु जातः । कामधेनुप्रभृ- तिषु मत्स्यपुराणम् । “चरणानि मुखं पुच्छं यस्य श्वेतानि गोपते । लाक्षारससवर्णश्च तं नीलमिति निर्दिशेत् ॥ वृष एव स मोक्तव्यो न सन्धार्य्यो गृहे वसन् । तदर्थमेषा चरति लोके गाथा पुरातनी ॥ एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् । गौरीं वाप्युद्वहेद्भार्य्यां नीलंवा वृषमुत्सृजेत् ॥” वत्सतरीर्विशेषयति । “अग्रतो लोहिता पत्नी पार्श्वाभ्यां नीलपाण्डरे । पृष्ठतश्च भवेत् कृष्णा वृषभस्य च मोक्षणे ॥” * ॥
वैधकर्म्मार्थमण्डपान्तर्व्वितानमुक्तं हयशीर्षपञ्च- रात्रम् । “नवेन चित्रवस्त्रेण वितानं कल्पयेद्- बुधः ।” अत्र च । “शुक्तवासाः शुचिर्भूत्वा ब्राह्मणान् स्वस्तिवाच्य च । कीर्त्तयेद्भारतञ्चैव तथा स्यादक्षयं हविः ॥” इति दानधर्म्मस्थवृषोत्सर्गप्रकरणीयवचनात् अक्षयहविष्ट्वकामेन स्वस्तिवाचनानन्तरं भार- तनामोच्चारणं कार्य्यम् । “यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् । महाभारतमाख्याय पूर्व्वां सन्ध्यां विमुञ्चति ॥” इत्यादि-पुराणोक्त-प्रातर्महाभारतोच्चारणवत् राढदेशीयास्तु विराटपर्व्व पाठयन्ति । भविष्ये । “वृषोत्सर्गश्च द्बिविधो जीवतो वा मृतस्य च ।” इत्युपक्रम्य । “अनुज्ञां गृह्य च पुनर्गणेशं पूजयेद्घटे । ग्रहांश्चैव यजेत् पश्चात् विष्णुं संपूजयेत् ततः ॥” छन्दोगपरिशिष्टम् । “गोशालायां प्रणीयाग्निं संस्कृत्य व्रीहितण्डु- लान् । अग्निपूषेन्द्रेश्वरेभ्यो निर्व्वपेत् पायसं चरुम् ॥” गोशालायामिति प्रधानकल्पः । वृषभ इत्युप- क्रम्य । “उत्स्रष्टव्यो विधानेन श्रुतिस्मृतिनिदर्शनात् । प्रागुदक्प्लवने देशे मनोज्ञे निर्जने वने ॥” सङ्कल्पानन्तरं यजमान एव प्रथमं ब्रह्मवरणा- दिकं कुर्य्यात् तत्र ब्रह्मवरणं प्रथमतः । ज्योति- ष्टोमे ब्रह्मोद्गातृहोत्रध्वर्य्यु इत्यादिदर्शनेन । गृह्यसंग्रहे । “द्यूते च व्यवहारे च प्रव्रते यज्ञकर्म्मणि । यानि पश्यन्त्युदासीनाः कर्त्ता तानि न पश्यति । एकः कर्म्मनियुक्तः स्यात् द्वितीयस्तन्त्रधारकः ॥ तृतीयः प्रब्रूयात् प्रश्नं ततः कर्म्म समाचरेत् ॥” वरणानन्तरं कुशण्डिकां समाप्य यथाविधिना चरुपाकञ्च कृत्वा चरुहोमं कुर्य्यात् । ततः स्विष्टिकृद्धोममहाव्याहृतिहोमौ कार्य्यौ ॥ * ॥
ततः “वृषस्य दक्षिणे पार्श्वे त्रिशूलाङ्कं समुल्लिखेत् । वृषा ह्यसीति सव्येऽस्य चक्राङ्कमपि दर्शयेत् । तप्तेन पश्चादयसा स्पष्टौ तावेव कारयेत् ॥ अथैनं कलसस्थाभिरद्भिरेको वृषेण वा । सर्व्वौषधिसुगन्धीभिः स्नापयेद्वत्सिका अपि ॥ परिधाप्याहते शुक्ले वाससी हेमपट्टकम् । सत्यमिथ्यावेषासोमसामभ्यां शिरसि न्यसेत् ॥” ततो वृषवत्सतरीणामलङ्कारादिकं दत्त्वा विल्व- वकुलनिर्म्मितयूपे उपयूपे च बद्ध्वा एनं युवानं इति मन्त्रं पठित्वा वत्सतरीचतुष्टयसहितं वृषं तत्तत्- फलकामी अद्येत्यादिवाक्येनोत्सृजेत् ॥ * ॥
ततो यूपाद्विमुच्य वत्सतरीचतुष्टयसहितं वृषमैशान्यां चालयित्वा प्रार्थयेत् । यथा, —
“न खादेत् परशस्यानि नाक्रामेद्गर्भिणीञ्च गाम् । धर्म्मोऽसि त्वं चतुष्पादश्चतस्रस्ते प्रियास्त्विमाः । चतुर्णां पोषणार्थाय मयोत्सृष्टास्त्वया सह ॥ देवानाञ्च पितॄणाञ्च मनुष्याणाञ्च योषितः । भूतानां तृप्तिजननास्त्वया सार्द्धं व्रजन्त्विमाः ॥ नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक । त्वयि मुक्तेऽक्षया लोका मम सन्तु निरामयाः ॥ मा मे ऋणोऽस्तु दैवोऽथ पैत्रो भौतोऽथ मानुषः । धर्म्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा ॥ यत्किञ्चित् दुष्कृतं कर्म्म लोभमोहात् कृतं भवेत् । तस्मादुद्धृत्य देवेश पितुः स्वर्गं प्रयच्छ मे ॥ यावन्ति तव लोमानि शरीरे सम्भवन्ति च । तावद्वर्षसहस्राणि स्वर्गे वासोऽस्तु मे पितुः ॥” इति मत्स्यपुराणोक्तं पठेत् । तत आचाराद्- वृषपुच्छगलितोदकेन ब्रह्मपुराणोक्ततर्पणं कुर्य्यात् ततः प्रकृतदक्षिणां कृत्वा कर्म्मकारयितृभ्यो दक्षिणां दद्यात् । इति वृषोत्सर्गतत्त्वम् ॥ * ॥
अपि च । “कार्त्तिक्यां कारयेत् पूजां यागं देवीप्रियं सदा । गोत्सर्गन्तु प्रकर्त्तव्यं नीलं वा वृषमुतसृजेत् । सर्व्वयज्ञफलं ब्रह्म प्राप्नुयादविचारवन् ॥ मनुरुवाच । अश्वमेधसमं पुण्यं वृषोत्सर्गादवाप्यते ॥ रेवत्याञ्चाश्विने मासि कार्त्तिक्यां कार्त्तिकस्य वा ॥ गोविवाहोऽथवा कार्य्यो माघ्यां वै फाल्गुने- ऽपि वा ॥ शिवोमामङ्गलञ्चैत्रे तृतीयायां महाफलम् । अश्वत्थोडुम्बरीयागं विवाहविधिना भवेत् ॥ सतोरणं भवेत्तीर्थे उत्सर्गो गोकुलेऽपि वा । चतस्रो वत्सिका भद्रा द्वौ वा संभवतोऽपि वा ॥ वत्सं सर्व्वाङ्गसंपूर्णं कन्या सा वत्सिका भवेत् । अलंकृत्य यथाशोभमुत्सर्गं कारयेन्मुने ॥ विवाहमेकवत्सीयनीलेन भवते सदा । वृषेण अश्वमेधस्य यागस्य फलदायकम् ॥ जायेरन् बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् । यजेद्वा अश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ रोहितो यस्तु वर्णेन शङ्खवर्णखुरो वृषः । लाङ्गूलशिरसश्चैव स वै नीलवृषः स्मृतः ॥ अङ्कित्वोत्सृज्यते पूर्व्वं गाञ्चालंकृत्य सर्व्वतः । तप्तेन वामतश्चक्रं याम्ये शूलं समालिखेत् ॥ धातुना हेमतारेण आयसेनाथवाङ्कयेत् । एवं कृत्वा अवाप्नोति फलं वाजिमखोदितम् ॥ यमुद्दिश्योत्सृजेद्वत्सं स लभेताविचार- णात् । यथा शिवोमजा अर्च्चा पूजिता सर्व्वकामदा । एवं देवत्रयं यष्ट्वा अनन्तं लभते फलम् ॥ मङ्गलाविहितं यच्च यच्च गोदानजं फलम् । सहस्रक्रतवस्तेन वृषोत्सर्गादवाप्नुयात् ॥” इति देवीपुराणे पूजाविधि नामाध्यायः ॥