संस्कृत-शब्दकोशः

वृषोत्सर्ग वृष्टिघ्नी

वृष्टि

वाचस्पत्यम्

वृष्टि ||‍ स्त्री वृष—क्तिन् । १ वर्षणे अमरः । कर्मणि क्तिन् । मेघादिभिः २ सिच्यमाने जले । तत्कारणं यथा “ब्रुवन्तु परमार्थञ्च किमिन्द्राद्वृष्टिरेव च । सूर्य्याद्वि- जायते तोयं तोयात् शस्यानि शाखिनः । तेभ्योऽ- न्नानि फलान्येव तेभ्यो जीवन्ति जीविनः । सूर्य्यग्रस्तञ्च नीरञ्च काले तस्मात् समुद्भवः । सूर्य्यो मेघादयः सर्वे विधात्रा ते नियोजिताः । यत्राव्दे यो जलधरो गजश्च सागरोमरुत् । शस्याधिपो नृपो मन्त्री विधात्रा ते निरूपिताः । जलाढकानां सस्यानां तृणानाञ्च निरू- पितम् । अव्देऽव्देऽस्त्येव तत् सर्वं कल्पे कल्पे युगे युगे । हस्ती समुद्रादादाय करेण जलमीप्सितम् । दद्याद्वनाय तद्दद्याद्वातेन प्रेरितो घनः । स्थाने स्थाने पृथिव्याञ्च काले काले यथोचितम् । ईश्वरेच्छयावि० र्भूतं पूर्णं तत्प्रतिवन्धकम् । भूतं भव्यं भविष्यञ्च म- हत् क्षुद्रञ्च मध्यमम् । धात्रा निरूपितं कर्म केन तात! निवार्य्यते” ब्रह्मवै० जन्म० २१ अ० । “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः वृष्टे- रन्नं ततः प्रजा” गीता । आसंन्नवृष्टिसूचकानि यथा “मयूराः स्तनयित्नूनां शब्देन हृषिता मुहुः । केका- यन्ति प्रतिबने सततं वृष्टिसूचकाः । मेघोत्सुकानां मधुरश्चातकानां मनोहरः । श्रूयतामतिमत्तानां वृष्टि- सन्निधिसूचकः । गगने शक्रचापेन कृतं साम्प्रतमा- स्पदम् । धारासारशरैस्तापं छेत्तुं प्रति यथोद्गतः” कालिकापु० १५ अ० ।


शब्दकल्पद्रुमः

वृष्टिः || स्त्री (वृष + क्तिन् ।)
मेघाज्जलबिन्दुपत- नम् । तत्पर्य्यायः । वर्षम् २ । इत्यमरः ॥ गोघृतम् ३ परामृतम् ४ वर्षणम् ५ । इति शब्दरत्नावली ॥ तत्कारणं यथा, —
“अमृतादित्रये यत्र भवन्ति सर्व्वखेचराः । तदा वृष्टिः क्रमाज्ज्ञेया धृत्यर्कवसुवासरैः ॥” इति स्वरोदयः ॥ * ॥
अपि च । “ब्रुवन्तु परमार्थञ्च किमिन्द्राद्वृष्टिरेव च । सूर्य्याद्धि जायते तोयं तोयात् शस्यानि शाखिनः ॥ तेभ्योऽन्नानि फलान्येव तेभ्यो जीवन्ति जीविनः । सूर्य्यग्रस्तञ्च नीरञ्च काले तस्मात् समुद्भवः । सूर्य्यो मेघादयः सर्व्वे विधात्रा ते निरूपिताः ॥ यत्राब्दे यो जलधरो गजश्च सागरो मरुत् । शस्याधिपो नृपो मन्त्री विधात्रा ते निरू- पिताः ॥ जलाढकानां शस्यानां तृणानाञ्च निरूपितम् । अब्देऽब्देऽस्त्येव तत् सर्व्वं कल्पे कल्पे युगे युगे ॥ हस्ती समुद्रादादाय करेण जलमीप्सितम् । दद्याद्घनाय तद्दद्याद्वातेन प्रेरितो घनः । स्थाने स्थाने पृथिव्याञ्च काले काले यथोचितम् ॥ ईश्वरेच्छयाविर्भूतं तूर्णं भूतं प्रतिबन्धकम् । भूतं भव्यं भविष्यञ्च महत् क्षुद्रञ्च मध्यमम् । धात्रा निरूपितं कर्म्म केन तात निवार्य्यते ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अः ॥ आसन्नवृष्टिसूचकानि यथा, —
“मयूराः स्तनयित्नूनां शब्देन हृषिता मुहुः । केकायन्ति प्रतिवने सततं वृष्टिसूचकाः ॥ मेघोत्सुकानां मधुरश्चातकानां मनोहरः । श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः ॥ गगने शक्रचापेन कृतं साम्प्रतमास्पदम् । धारासारशरैस्तापं छेत्तुं प्रति यथोद्गतः ॥” इति कालिकापुराणे १५ अध्यायः ॥ * ॥
वृष्टिफलं यथा, —
“पतिव्रताया वचनान्नोद्गच्छति दिवाकरः । सूर्य्योदयं विना नैव स्नानदानादिकाः क्रियाः ॥ नाग्नेर्व्विहरणञ्चैव क्रत्वभावश्च लक्ष्यते । नैवाप्यायनमस्माकं विना होमेन जायते ॥ वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोदितैः । वृष्ट्यादिनानुगृह्णीमो मर्त्यान् शस्यादिसिद्धये ॥ निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः । एषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः ॥ अधो हि वर्षाम वयं मर्त्याश्चोर्द्ध्वप्रवर्षिणः । तोयवर्षेण हि वयं हविर्व्वर्षेण मानवाः ॥ येऽस्माकं न प्रयच्छन्ति नित्या नैमित्तिकीः क्रियाः । क्रतुभागं दुरात्मानः स्वयं येऽश्नन्ति लोलुपाः ॥ विनाशाय वयं तेषां तोयसूर्य्याग्निमारुतैः । क्षितिञ्च संदूषयामः पापानामपकारिणाम् ॥ दुष्टतोयादिदोषेण तेषां दुष्कृ तकारिणाम् । उपसर्गाः प्रवर्त्तन्ते मरणाय सुदारुणाः ॥ ये चास्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना । तेषां पुण्याद्वयं लोकान् वितरामो महा- त्मनाम् ॥” इति मार्कण्डेयपुराणे पतिव्रतामाहात्म्यनामा- ध्यायः ॥ * ॥
वृष्टिजलगुणाः । “गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने । बल्यं रसायणं मेध्यं पात्रापेक्षि च तत्परम् ॥ दिवार्ककिरणैर्जुष्टं स्पृष्टमिन्दुकरैर्निशि । अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना ॥ वर्षासु चरन्ति घनैः सहोरगा वियति कीट- लूताश्च । तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्व्वम् ॥ कालेन पक्वं निर्द्दोषमगस्त्येनाविषीकृतम् । हंसोदकमितिख्यातं शारदं विमलं जलम् ॥” इति राजवल्लभः ॥ * ॥
अथ तस्य भेदाः । “पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति द्विधा । दिव्यं चतुर्व्विधं प्रोक्तं धाराजं करकाभवम् ॥ तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम् ॥” * तत्र धारस्य लक्षणं गुणाश्च । “धाराभिः पतितं तोयं गृहीतं स्फीतवाससा । शिलायां वसुधायां वा धौतायां पतितं च यत् ॥ सौवर्णे राजते ताम्रे स्फाटिके काचनिर्म्मिते । भाजने मृण्मये चापि स्थापितं धारमुच्यते ॥ धारनीरं त्रिदोषघ्नमनिर्देश्यं रसं लघु । सौम्यं रसायनं बल्यं तर्पणं ह्लादि जीवनम् ॥ पाचनं मतिकृन्मूर्च्छातन्द्रादाहश्रमक्लमान् । तृष्णां हरति तत् पथ्यं विशेषात् प्रावृषि स्मृतम् ॥” * ॥
अथ धाराजलस्य भेदौ । “धाराजलञ्च द्बिविधं गाङ्गसामुद्रभेदतः ।” तत्र गाङ्गसामुद्रयोर्लक्षणं गुणाश्च । “आकाशगङ्गासम्बन्धि जलमादाय दिग्गजाः । मेघैरन्तरिता वृष्टीः कुर्व्वन्तीति वचः सताम् ॥ गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः । सर्व्वथा तज्जलं देयं तथैव चरके वचः ॥ स्थापितं हैमने पात्रे राजते मृण्मयेऽपि वा । शाल्यन्नं येन संसिक्तं भवेदक्लेदिवर्णवत् ॥ तत् गाङ्गं सर्व्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा । तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम् ॥ विस्रञ्च दोषलं तीक्ष्णं सर्व्वकर्म्मसु गर्हितम् । सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥ यतोऽगस्त्यस्य विप्रर्षेरुदयात् सकलं जलम् । निर्म्मलं निर्व्विषं स्वादु शुक्रलं स्याददोषलम् ॥” * अतएवाह । “फुत्कारविषवातेन नागानां व्योमचारिणाम् । वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥” इति भावप्रकाशः ॥



Correction: