संस्कृत-शब्दकोशः

वृष्णिगर्भ वृष्यकन्दा

वृष्य

वाचस्पत्यम्

वृष्य ||‍ पु० वृषाय हितो यत् वृष—क्यप् वा । १ माषे हेमच० । २ शुक्रवृद्धिकारके त्रि० भावप्र० । ३ वाजीकरणे न० ४ आमलक्यां ५ शतावर्य्यां ५ ऋषभनामौषधौ च स्त्री रा- जनि० । ७ ऋद्धितामौषधौ रत्नमा० ।


शब्दकल्पद्रुमः

वृष्यं || क्ली (वृष + “विभाषा कृवृषोः ।” ३ । १ । १२० । इति क्यप् ।)
वाजीकरम् । इति राज- निर्घण्टः ॥


शब्दकल्पद्रुमः

वृष्यः || त्रि (वृषाय कामुकाय हितः । वृष + “खलयवमाषेति ।” ५ । १ । ७ । इति यत् ।)
शुक्र- वृद्धिकारकौषधादिः । इति भावप्रकाशः ॥


शब्दकल्पद्रुमः

वृष्यः || पुं, (वृषाय हितः । वृष + यत् ।)
माषः । इति हेमचन्द्रः ॥



Correction: