संस्कृत-शब्दकोशः

वेकट वेगनाशन

वेग

वाचस्पत्यम्

वेग ||‍ पु० विज—घञ् । १ प्रवाहे हेमच० । २ जवे अमरः ३ महा- कालफले मेदि० ४ रेतसि हेमच० । ५ मूत्रविष्ठादिनिः सारणयत्ने ६ न्यायोक्ते संस्कारभेदे च “स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः” । “क्षितिर्जलं तथा तेजः पवनो मन एव च । परापरत्व- मूर्तत्वक्रियावेगाश्रया अमी” भाषा० तस्य क्षित्यादि- गुणतोक्ता । “स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः । न वेगं धारयेद्धीरः कामादीनाञ्च धारयेत्” राजनि० ।


शब्दकल्पद्रुमः

वेगः || पुं, (विज + घञ् ।)
प्रवाहः । तत्पर्य्यायः । ओघः २ वेणी ३ धारा ४ । इति हेमचन्द्रः ॥ जवः । तत्पर्य्याथः । रंहः २ तरः ३ रयः ४ स्यदः ५ । इत्यमरः ॥ (यथा, मनौ । ५ । १०८ । “मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ॥”)
महाकालफलम् । इति मेदिनी ॥ रेतः । इति हेमचन्द्रः ॥ मूत्रविष्ठादिनिर्गमप्रवृत्तिः । इति भरतः ॥ संस्कारविशेषः । यथा, —
“स्पर्शादयोऽष्टौ वेगाख्यसंस्कारो मरुतो गुणाः । अष्टौ स्पर्शादयो रूपं द्रवो वेगश्च तेजसि ॥ स्पर्शादयोऽष्टौ वेगश्च द्रवत्वञ्च गुरुत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्द्दश ॥” इति भाषापरिच्छेदः ॥ * ॥
(यथा, भागवते । ७ । ८ । २५ । “ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ॥”)
वेगधारणनिषेधो यथा, —
“वेगरोधो न कर्त्तव्यश्चान्यत्र क्रोधवेगतः ॥” इति आह्निकतत्त्वधृतविष्णुधर्म्मोत्तरवचनम् ॥ अपि च । “स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः । न वेगान्वारयेद्धीरः कामादीनाञ्च धारयेत् ॥” इति राजवल्लभः ॥



Correction: