संस्कृत-शब्दकोशः

वेडा वेण

वेढमिका

शब्दकल्पद्रुमः

वेढमिका || स्त्री रोटिकाविशेषः । यथा, —
“माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः । रचिता रोटिका सैव प्रोक्ता वेढमिका बुधैः ॥ भवेद्वेढमिका बल्या वृष्या रुच्यानिलापहा । उष्णा संतर्पणी गुर्व्वी वृंहणी शुक्रला परम् ॥ भिन्नमूत्रमलास्तन्यमेदःपित्तकफप्रदा । गुदकीलार्द्दितश्वासयकृच्छूलानि नाशयेत् ॥” इति भावप्रकाशः ॥



Correction: