संस्कृत-शब्दकोशः

वेढमिका वेणि

वेण

वाचस्पत्यम्

वेण ||‍ पु० वेण—अच् । १ वर्णसङ्करजातिभेदे “वैदेहकेन त्व म्बष्ट्यामुत्पन्नो वेण उच्यते” मनुः । २ पृथूराजपितरि नृपभेदे “सत्पुत्रेण तु जातेन वेणोऽपि ३ नदीभेदे स्त्री । त्रिदिवं ययौ” विष्णुपु० । दन्त्यान्तत्वमस्येत्यन्ये ।


वाचस्पत्यम्

वेण ||‍ विशामने वाद्यादाने गतौ ज्ञाने चिन्तयाञ्च भ्वा० उभ० सक० सेट् । वेणति ते । अवेणीत् अवेणिष्ट । ऋदित् चङि न ह्रस्वः ।


शब्दकल्पद्रुमः

वेण || ऋ ञ निशामने । वादित्रादानगमनज्ञान- चिन्तासु । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०- सक०-सेट् ।)
ऋ, अविवेणत् । ञ, वेणति वेणते । निशामनं चाक्षुषज्ञानम् । वादित्रं मुरजादि तस्यादानं वादित्रादानम् । वादित्रं वादित्रविषयक्रिया इत्येकोऽर्थः इत्येके । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वेणः || पुं, (वेण + अच् ।)
वर्णसङ्करजातिविशेषः । स तु अम्बष्ठ्यां वैदेहकाज्जातः । यथा, —
“वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥” इति मानवे । १० । १९ ॥ त्रेतायुगीयसूर्य्यवंशीयचतुर्थनृपः । स तु पृथु- राजपिता । यथा, विष्णुपुराणे । “सत्पुत्त्रेण तु जातेन वेणोऽपि त्रिदिवं ययौ । पुन्नाम्नो नरकात्त्रातः स तेन सुमहात्मना ॥” तेन सुपुत्त्रेण मृतवेणदक्षिणहस्तमन्थनजातेन पृथुना । इति शुद्धितत्त्वम् ॥



Correction: