वाचस्पत्यम्
वेणि(णी) || स्त्री वेण—इन् वा ङीप् । १ केशरचनाभेदे अमरः २ जलसमूहे जटा० । ३ तत्प्रवाहे हेमच० । ४ देवताडवृक्षे अमरः । ५ नदीभेदे तदुत्पत्तिकथा पद्मोत्तर० १५६ अ० । ६ गङ्गायमुनासरस्वतीमेलनस्थाने च । प्रयागशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वेणिः || स्त्री (वी + “वीज्याज्वरिभ्यो निः ।” उणा० ४ । ४८ । इति निः । पृषोदरादित्वात् णत्वम् ।)
प्रोषितभर्त्तृकादिधार्य्यकेशरचनाविशेषः । इति भरतः ॥ विरहिणीबद्धकचः । इति जटाधरः ॥ (यथा, माघे । १४ । ३० । “तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् । गुम्फिताः शिरसि वेणयोऽभव- न्न प्रफुल्लसुरपादपस्रजः ॥”)
तत्पर्य्यायः । प्रवेणिः २ । इत्यमरः ॥ वेणी ३ प्रवेणी ४ । इति भरतः ॥ वेणिका ५ । इति शब्दमाला ॥ जलसमूहः । इति जटाधरः ॥ यथा । प्रयागे गङ्गायमुनासरस्वतीमेलनं त्रिवेणी ॥